पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८८) भट्टिकाव्ये जयमङ्गलासमेते- [ दशम:- रणेत्यादि-स कपिः वियदुस्पतितो राममहितो रामपूजितः रणपण्डितो युद्ध- कुशलः अग्र्यविबुधारिपुरे अग्र्यो यो विबुधः इन्द्रः तस्य याऽरिर्दशाननस्तस्य पुरे लङ्कायां कलहं कृतवान् । कलहंसान् रमयतीति कलहंसरामम् । रमेर्ण्यन्तात्कर्मण्यण् । तादृशं रावणगृहं वलाद्वार्यमाणोऽपि ज्वलदग्नि दीप्य- कृतवान् कृतं विद्यते यस्येति कृतापेक्षीत्यर्थः । अतः शत्रुः । युक्पादयमकमिति युजोद्वितीय चतुर्थयोः पादयोर्यमितत्वीत् ॥ २ ॥ पादान्तयमकम् | मानपावकं निखिलाऽभवन् न सहसा सहसा ज्वलनेन पूः प्रभवता भवता । • वनिताजनेन वियता वियता त्रिपुराऽऽपदं नगमिता गमिता ॥ ३ ॥ निश्चिळेत्यादि--ज्वलनेनाग्निना प्रभवता वृद्धिं गच्छता भवता समुत्प- यमानेन सहसा तत्क्षणं पूः पुरी निखिला सर्वा न सहसा अभवत् सान --- न्दा न जाता | हासस्यानन्दकार्यत्वात् एवमुक्तम् | 'स्वहसोर्वा ||३|३|६२। इत्यपि रूपम् । वनिताजनेन वियता नभसा वियता भयादितस्ततो गच्छता त्रिपुरापदं गमिता प्रापिता पू: त्रिपुरेष्वपि दह्यमानेषु भयादितस्ततो जनो गतः नगं त्रिकूट पर्व तमिता सती । पादान्तयमकमिति पादान्तेषु यमितत्वात् ॥ ३ ॥ यादाऽऽदियमकम् | सरसां सरसां परिमुच्य तनुं पततां पततां ककुभो बहुशः । सकलैः सकलैः परितः करुणैरुदितै रुदितैरिव खं निचितम् ॥ ४ ॥ x सरसामित्यादि – सरसाम् तोयाशयानां तनुं शरीरम् । सरसां साद्री परिमुच्य त्रासात्त्यक्त्वा पततां पक्षिणां बहुश: बहून् वारान् ककुभो दिशः पततां गच्छतां उदितैः शब्दितैः । वदेर्यजादित्वात्सम्प्रसारणम् । सकलै- समस्तैः सकलै; माधुयवाद्भः | कलशव्दस्य गुणमात्रवृत्तित्वान्न तद्वति वर्तते ॥ ततश्च सहशब्देन समासो भवति । करुणैः काढण्यजनकै रुदितैरिव ऋन्दुि- तरिव परितः समन्तात् खमाकाशं निचितं व्याप्तम् । पादादियम कमिति पादानामादौ यमितत्वात् ॥ ४ १ अब 'प्रमिताक्षरा' वृत्तम् । 'प्रमिताक्षरा सजससैः कथिता' इति तल्लक्षणात् ' अत्रापि 'प्रमिताक्षरा' छन्दः, तलक्षणं चोक्तं प्राकू । ३ अत्र 'तोटकं' वृत्तम् 'इह तोटक मम्बुधिसैः प्रथितम्' इति तलक्षणात् । एवमग्रिमेऽपि पद्ये इदमेव च्छन्दः के न चात्र यमकमेव, किं तूत्प्रेक्षाऽपि । 1