पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | अथ प्रसन्नकाण्डम् । -- (२८७) 'दशमः सर्गः । शब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थ प्रसन्नकाण्डमुच्यते---काव्य- क्यात्र प्रसन्नत्वात् । प्रथमं चेदं लक्षणं यत् प्रसन्नता नाम अविद्वदङ्गनाबालप्रती- तार्थ प्रसन्नवदिति । शब्दलक्षणं पुनः प्रकीर्णमेव द्रष्टव्यम् । तत्रास्मिन काण्डे चत्वारः परिच्छेदाः । अलंकार माधुर्यप्रदर्शनदोषाः भाषासमावेशश्चेति । तत्रालं- कारो द्विविधः शब्दालङ्कारोऽर्थालङ्कारश्चेति । तत्र पूर्वो द्विविधः, अनुप्रासो यमकं चेति उभयं दर्शयन्नाह - अनुप्रासवत् । अथ स वल्कदुकूलकुथाऽऽदिभिः परिगतो ज्वलदुद्धतवालधिः । उपतद्दिवमाकुललोचनैर्नृरिपुभिः सभयैरभिवक्षितः ॥ १ ॥ अथेत्यादि — अथ दाहादेशानन्तरं स वानरो वियदाकाशमुद्धतत् उत्पतितवान् । वल्कम् अंशुकम् 'शुक्रवलकोलका' इति निपातनम् । कुथःकुशः आदि शब्दादन्यैरपि मुञ्जादिभिः परिगतः परिवेष्टितः । ज्वलन्नुद्धत ऊर्ध्वाकृतो चालधि: पुच्छे यस्य सः । नृरिपुभिः राक्षसैः । समयैराकुललोचनै- रमिवीक्षितः किमयमनुष्ठास्यतीति । अनुप्रासवदिति अनुप्रासो यस्मिन् विद्यत इति । तस्य च लक्षणं--‘सरूपवर्णविन्यासमनुप्रासं प्रचक्षते' इति ॥ १ ॥ यमकस्यापि लक्षणम्-‘तुल्य श्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णानां न्यः पुनर्वादो यमकं तन्निरूप्यते ॥' इति तद्नेकविधं दर्शयन्नाह - युक्पादयमकम् । रणपण्डितोऽग्र्यविबुधारिपुरे कलहं स राममहितः कृतवान् । ज्वलदारीरावणगृहं च बलात् कलहसंराममहितः कृतवान् ॥ २ ॥ १ अन्न द्रुतविलम्बितं वृत्तम्, 'द्रुनविलम्बितमाह नभौ भरौ ।' इति ललक्षणात् ।