पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२८६ ) भट्टिकाव्ये जयमङ्गला समेते- [ नवमः- अन्याऽऽसक्तस्य यद्वय न त्वं स्मरसि वालिनः । मूर्च्छावान् नमतः संध्यां ध्रुवं ताहुपीडितः ॥ १३५ ॥ अन्यत्यादि---संध्यां देवतां नमतः अन्यासक्तस्य वालिनो यद्वीर्य सामर्थ्य तत् ध्रुवमवश्यं त्वं न स्मरसि न चेतयसि । कुत: बाहुपीडित: सन् मूर्च्छावान् जातः । अत एव न स्मरसि येतैवमुक्तवानसि 'निजधानान्य- संसक्तम्' इति ।। १३५ ।। असद्भन्धुवधोपज्ञं विमुञ्च बलिविग्रहम् | सीतामर्पय नन्तव्ये कोशदण्डाऽऽत्मभूमिभिः ।। १३६ ।। असदित्यादि--यतो बलवद्भयोऽपि वलीयान् रामः तस्माइलिना रामेण सह विग्रहं मुञ्च त्यज । कीदृशम् । बन्धुवधोपज्ञं प्रथमतो ज्ञातिविनाशेन त्रिदितमित्यर्थः । उपज्ञायत इत्युपज्ञा । 'आतचोपसर्गे । ३ । ३ । १०६ ।। इलङ् | बन्धुवधस्योपज्ञेति समासः । 'उपज्ञोपक्रमं तदाद्याचिख्यासायाम् ॥२॥४॥ २१|' इति नपुंसकलिङ्गता | तत्सामानाधिकरण्यादसदिति नपुंसकलिङ्गता । नन्तत्र्ये प्राणामार्हे | कौशदण्डात्मभूमिभिः सह सीतामर्पय || १३६ || स्फुटपरुपमसह्यमित्थमुच्चैः सदसि मरुत्तनयेन भाष्यमाणः । परिजनमभितो विलोक्य दाहं दशवदनः प्रदिदेश वानरस्य ॥ १३७ ॥ इति भट्टिकाव्ये नवमः सर्गः । इति प्रकीर्णकाः । स्फुटेत्यादि-इत्थं स्फुटपरुषम् उक्तप्रकारेण स्फुडं स्पष्टम् परुषं रूक्षम् अत एवासह्यं सोढुमशक्यम् | उच्चैर्महता ध्वनिना सदसि सभायां मरुत्तनयेन साप्यमाणोऽसिहितः इत्थमित्यनेन वस्तुनः परिसमापितत्वात् । तेन वर्तमा- नसामीप्ये लट् । परिजनमभितः उभयपार्श्वे स्थितान् भृत्यान् विलोक्य वानरस्य दाहं प्रदिदेश आदिष्टवान् || १३७ ॥ जयमङ्गल ISSख्यया व्याख्यया इति श्रीजयमङ्गलसूशिवराचितया समलंकृते श्रीभट्टिप्रणीते रामचरिते काव्ये द्वितीये ऽधिकार- काण्डे लक्षणरूपे चतुर्थः परिच्छेदः । लक्ष्यरूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः । अधिकारकाण्डं समाप्तम् । १ अत्र ‘पुष्पिताग्रा' वृत्तम्, 'अयुजि नयुगरेफतो यकारो युजि च नजौ जरमाश्च 'पुष्पिताम्रा' इति तल्लक्षणात् ।