पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारणकाण्डम् | 'सीतां प्रत्यर्पयन धर्ममाप्नुहि' इत्येतदप्ययुक्तमित्याह- परस्त्रीभोगहरणं धर्म एव नराशिनाम् । मुखमस्तीत्यभाषिष्ठाः का मे साशङ्कता त्वाये ॥ १२२ ॥ परेत्यादि---परस्त्रीणां हरणं परेषां भोगहरणं च द्वयमपि नराशिनां धर्म एव आचार एव । अतो मुखमस्तीत्यभाषिष्ठा : अभिहितवानसीति सीतां प्रत्य-- पैयन् धर्ममाप्नुहोति । लुङि रूपम् | भयात् प्रत्यर्पयसि चेदाह --का मे साशङ्कता त्वंयीति त्रैलोक्यविजयित्वात् । त्वयति हनुमद्यपदेशेन रामं सूचयति ।। १२२।। 'संगच्छ रामसुग्रीवौ' इत्येतदपि न घटत इत्याह---- दूरविभिन्नानामृद्धिशील क्रियान्वयैः ।

हनूमन् कीदृशं सख्यं नरवानररक्षसाम् ॥ १२३ ॥ ब्रूहीत्यादि---ऋद्धया विभूत्या, शीलेन स्वभावेन, क्रियया अनुष्ठानेन अन्वयेन कुलेन, दूरविभिन्नानां नरादीनां कीदृशं सख्यमिति हे हनूमन् .. त्वमेव ब्रूहि ॥ १२३ ॥ 'विराधादिभिज्ञपितोऽसि यादृगरिः' इत्यस्योत्तरमाह---- •एको द्वाभ्यां विराधस्तु जिताभ्यामविवक्षितः । हतश्छलेन मूढोऽयं तेनापि तव कः स्मयः ॥ १२४ ॥ एक इत्यादि — एकेनापि विराधेन प्रथमं द्वावपि जितौ ताभ्यां पश्चा- द्धतः । तत्रापि न प्रकाशम् अपि तु छलेन । यतोऽसौ मूढोऽल्पबुद्धिः । तथाप्यविवक्षितः । शौर्यान्न प्रतीतः । तेनापि हतेन तव कः विस्मयो जातः ।।१२४॥ , मन्नियोगाच्च मारीचः पलायनपरायणः । (२८३ ) युयुत्सारहितो रामं ममारापहरन्वने ॥ १२५ ॥ मन्नियोगादित्यादि----मारीचस्तु यतो राममपहरन् ममार | मन्नियोगादा- देशात् । पलायनपरायणः अपसर्पणनिष्ठ: सन् | पलायनपरायण इति परस्य नामरूपत्वादनुपसर्गत्वान्न लत्वम् । युयुत्सारहितः योद्धुमिच्छा- रहितः । मन्नियोगादिति 'प्रत्ययोत्तरपदयो । ७ । २ । ९८ ।। इति अस्मदो मादेशः ।। १२४ ।। निजघानाऽन्यसंसक्तं सत्यं रामो लतामृगम् । त्वमेव ब्रूहि संचिन्त्य युक्तं तन्महतां यदि ॥ १२६ ।। १ मनुष्यभक्षकाणाम्, रक्षसामिति यावत् ।