पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- ( २८४ ) [ नवमः - निजघानेत्यादि----रामो लतामृगं वानरं वालिनं निजवानति सत्यमेतत् । पकेंतु अन्यसंसक्तं सुग्रीवेण सह युध्यमानं हृतवान् । तच्च त्वमेव संचिन्त्य ब्रूहि युक्तं तन्महतां यदि ।। १२३ ।। पुंसा भक्ष्येण बन्धूनामात्मानं रक्षितुं वधः | क्षमिष्यते दशास्येन क्कत्येयं तव दुर्मतिः ॥ १२७ ।। पुंसेत्यादि-आत्मानं रक्षितुं पुंसा भक्ष्येण भक्षणार्हेण | सतां बन्धूनां खरदूषणादीनां वधो दशास्येन क्षमिप्यते सहिप्यते कत्येये कभवेयं तव दुर्मति- र्दुष्टबुद्धिः । क्कशब्दात 'अव्ययात्त्यप् | ४ |२|१०४|’ ‘अमेहक्वतसित्रेभ्य'एक इति परिगणनात् ॥ १२७ ।। इदानीं कपिर्दशाननोक्तं दूपयन्नाह ---- कपिर्जगाद दूतोऽहमुपायं तव दर्शने । द्रुमराक्षसविध्वंसमका बुद्धिपूर्वकम् ॥ १२८ ॥ कपिरित्यादि --तत्र दर्शने अन्य उपायो नास्तीति बुद्धिपूर्वकं निरूप्य द्रुमभङ्गं राक्षसविनाशं च उपायमकार्षं कृतवानस्मीति कपिर्जगाद । अन्यथा दूतोऽहमागत इति महावलितः को मां गणयेत् ? । अतः सदृशमेव मया कृतमिति ।। १२८ ।। आत्रिकूटम कार्ये त्वत्का निर्जङ्गमं जगत् । दशग्रीव कथं ब्रूषे तानवध्यान्महीपतेः ।। १२९ ।। आत्रीत्यादि हे दशग्रीव ! ये त्वत्काः त्वाद्रमणका: कबन्धादयः । ‘स एषां ग्रामणीः | ५|२|७८ ।। इति कन् । आंत्रिकटं त्रिकूट पर्वतमभि- व्याप्य जगत् निर्जङ्गमं निर्जन्तुकसकार्षुः । तान् महीपतेः रामस्य कथमव- ध्यान् ब्रूपे ! | अशिष्टनिग्रहो हि सहीपतेर्धर्मः | जङ्गम इति गमेर्यलगन्त- व्यापि रूपम् ॥ १२९ ॥ अभिमानफलं प्रोक्तं यत् त्वया राम विग्रहे । • विनेगुस्तेन शतशः कुलायमुररक्षताम् || १३० ।। १ 'आइमर्यादाभिविष्योः २ | १ | १३' इति समासः |