पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- खरेत्यादि--खरादिनिधनं चापि, वैरकारणं मा मंस्थाः मा ज्ञासीः । लुङि रूपम् । यस्मादात्मानं संरक्षितुम् तत् खरादिनिधनं कृतं, न तु जिगीषया विजेतुमिच्छया ॥ ११७ ॥ (२८२) ततः क्रोधानैिलाऽऽपातकम्प्राऽऽस्याऽम्भोजसंहतिः । महाहद इव क्षुभ्यन् कपिमाह स्म रावणः ॥ ११८ ॥ [ नवमः- हतराक्षसयोधस्य विरुग्णोद्याशाखिनः । दूतोऽस्मीत ब्रुवाणस्य किं दूतसदृश तव ॥ ११९ ।। - तत इत्यादि--ततः कपिवाक्यानन्तरं क्रोधोऽनिल इव तस्यापातेन संश्लेषेण कम्प्रा कम्पनशीला आस्याम्भोजानां मुखपद्मानां: संहतिर्यस्य स एवं महाद इव क्षुभ्यन् चलन् । दिवादित्वाच्छथन् । ११८ ।। हतेत्यादि--हताः राक्षसयोधाः अक्षप्रभृतयो येन । विरुग्णा भग्नाः । ‘ओदितश्च ।८।२।१५।” इति निष्ठानत्वम् | उद्यानशाखिनो येन । तस्यैवंवि- धस्य तव दूतोऽस्मीति ब्रुवाणस्य किं ? दूतसदृशम् । संदेशमात्रस्य प्रापका हि दूता इति भावः ।। ११९ ॥ अग्नयाहितजनप्रह्वे तापसे कस्मात्संरम्भ इत्याह -- पडवाल स्त्रियो निघ्नन् कबन्धखरताडकाः | तपस्वी यादे काकुत्स्थः कटिक् कथय पातकी ॥ १२० ॥ पवालेत्यादि-पङ्गमङ्गविकलं कबन्धं बालं खरं स्त्रियं ताडकां निन्नय व्यापादयन् यदि तपस्वी काकुत्स्थः, कीटक् पातकीति कथय । 'इदं -- किमोरीश की।६।३।९०|' इति 'की' आदेशः।। १२० ।। यदुक्तं ‘यं विानीर्जेत्य स्त्रियो रत्नभूमयश्च न लभ्यन्ते' इत्याह- अभिमानफलं जानन्महत्त्वं कथमुक्तवान् । रत्नादिलाभशून्यत्वान्निष्फलं रामविग्रहम् ।। १२१ ।। अभीत्यादि --- अभिमानः फलं यस्य महत्त्वस्य तजानन् रत्नादिलाभशून्यं रामविग्रहं कथं निष्फलमुक्तवानास ? | विग्रहे सति अभिमानफलं महत्त्वं स्यात् ।। १२१ ।। १ योद्धारो राक्षसा इत्यथः ।