पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( २८१ ) संगतिं कुरु । सकर्मकत्वात् 'समो गम्मृच्छिभ्याम् ||१||३|२९|| इति तङ्न भवति ।। ११३ ॥ तच संततं परदारार्पणेनैवेति दर्शयन्नाई- सुहृदौ रामसुग्रीवौ किंकराः कपियूथपाः | परदारार्पणेनैव लभ्यन्ते मुञ्च मैथिलीम् ॥ ११४ ।। सुहृदावित्यादि ---रामसुग्रीवौ सुहृदा लभ्येते । 'सुहृदुईदौ मित्रा- मित्रयोः ||५|४|१५०।' इति निपातनम् । तत्प्रीतिलाभात् किङ्करा लभ्यन्ते । कि कुर्वन्तीति 'दिवाविभानिशाप्रभाभास्करान्तानन्तादिवहु नान्दीकिंलिपिलि- त्रिबलिभक्ति कर्तृचित्रक्षेत्रसङ्याजङ्घाबाहर्यत्तद्धनुरुप्पु |३|२|२१|' इति टः । कपियूथपा नीलप्रभृतयः । तस्मान्मुञ्च मैथिलीमिति ॥ ११४ ॥ किंच सीताप्रत्यर्पणात् पुरुषार्थप्राप्तिरिति दर्शयत्राह- धर्मे प्रत्यर्पयन् सीतामय रामेण मित्रताम् । कामं विश्वासवासेन सीतां दत्वाऽऽनुहि त्रयम् ॥ ११५ ।। धर्मपित्यादि- सीतां प्रत्यर्पयन् धर्मम् । अधर्मविरतेः अर्थम् । रामेण मित्रताम् । सर्वलाभानामर्थसंपन्नमित्रलाभत्य महत्त्वात् । विश्वासवासन रामविश्वासपूर्वके गावस्थानेन कामम् । अतः सीतां दत्त्वा आप्नुहि लभस्व । त्र्यं त्रिवर्ग त्रयोऽवयवा अभ्येति । 'द्वित्रिभ्यां तयस्यायज्वा | ५।२।४३ ।' ।। ११५ ॥ रिपुरेवास्तु किं तेन मित्रीकृतेन, न वासी शतोऽनकर्तुमिति चेदाह-- विराधताडकावालिकबन्धखरदूषणैः । न च न ज्ञापितो याङमारीचेनापि ते रिपुः ॥ ११६ ।। विराधेत्यादि- - याद्यगती रिपुः तादृग्विरावादिभिः न च न ज्ञापितः तव | अपि तु ज्ञापित एवेत्यर्थः । तस्मात्तेन सह मैत्री युक्ता न विग्रह इति आव: । यादृगिति 'त्यादिषु दृशोऽनालोचने कञ्च | ३|२|६०|' इति चकारात् किन् । 'आ सर्वनाम्नः |६|३|९||' इत्याकारादेशः ।। ११६ ।। खरादीन् व्यापाद्यता तेनैव वैरकारणमाचरितं न मयेति चेदाह — खराऽऽदिनिधनं चापि मा संस्था वैरकारणम् । आत्मानं रक्षितुं यस्मात्कृतं तत्र जिगीषया ॥ ११७ ॥