(२८०) भट्टिकाव्ये जयमङ्गलासमेते- [ नत्रमः- रोषेत्यादि- - रोष भीम मुखेन इति ‘पदव्यवायेऽपि ।८।४।३८११ इतित्वप्रतिषेधः, भीममुख इत्यनेन निमित्तनिमित्तिनोर्व्यवधानात् । 'अनादिषु च |८|४||३९| इति णत्वप्रतिषेधः । एवमुक्ते सति प्लवङ्गमः रावणं प्रोचे वक्तुं प्रवृत्तः । वाक्यं वक्ष्यमाणं सानुनयम् अनुकूलम् । किमर्थ स्वार्थस्य सिद्धये । स्वार्थश्च सीताप्रत्यर्पणम् || १०९ || इति णत्वाधिकारः । इतः प्रभृति प्रकीर्णकश्लोकानाह-- दूतमेकं कपि बद्धमानीत वेश्म पश्यतः । लोकत्रयपतेः क्रोधः कथं तृणलघुस्तव ॥ ११० ॥ दूतमित्यादि-- दूतं संदेशस्य हारकं एकमद्वितीयम् वद्धम् अस्वतन्त्री कृतं वेश्मानतिं पश्यत इति सर्वमेतन्न रोषकारणम् । अतो लोकत्रयपतेस्तवायं तृणवल्लघुरसारः कथं कोपः ।। ११० ।। अग्न्याहितजनप्रवे विजिगीषापराङ्मुखे । कस्माद्वानीतिनिष्णस्य संरम्भस्तव तापसे ।। १११ ।। -- अग्नीत्यादि - - अभ्याहितजनप्रह्वे आहिताग्नौ जने प्रवणे । वाहिताम्या- दिषु पूर्वनिपातः । तस्मिन् विजिगीषापराङ्मुखे त्यक्तराज्यत्वात् तापसे रामे । 'तपःसहस्राभ्यां विनीनी ||२|१०२॥' 'अण् च |५|२|१०३ |' इत्यण् । नीतिनिष्णस्य तव | नीतौ पटुत्रज्ञस्य कस्माद्धेतोः संरम्भः रोपः ।। १११ ॥ न सर्वरात्रकल्याण्यः स्त्रियो वा रत्नभूमयः । यं विनिर्जित्य लभ्यन्ते कः कुर्यात्तेन विग्रहम् ॥ ११२ ।। नत्यादि- --यं विनिर्जित्य सर्वरात्रं कल्याण्यः स्त्रियो न लभ्यन्ते । सर्वाच ता रात्रयश्चेति पूर्वकालै कसर्वजरत्पुराणनवकेवला; समानाधिकरणेन ।२।१।४९।' इति समासः । 'अहः सर्वैकदेशसङ्ख्यात पुण्याच्च रात्रेः |५|४१८७१ इत्यच् | सर्वरात्रं कल्याण्य इति सः | वा रत्नभूमयः रत्नाकगः रत्नानि भूमयश्चेति सः । कंः तेन सह विग्रहं कुर्यात् सन्धिरेव युक्तः ॥ ११२ ॥ तदेव दर्शयन्नाह --- संगच्छ रामसुग्रीवौ भुवनस्प समृद्धये । रत्नपूर्णाविवाम्भोवी हिमवान् पूर्वपश्चिमौ ॥ ११३ ॥ सगच्छत्यादि-यथा रत्नपूर्णावम्भोनिधी पूर्वपश्चिमी भुवनस्य समृद्धये हिमवान् संगतवान् तथा त्वमपि रामसुग्रीवौ भुवनस्य समृद्रये संगच्छ
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१८
दिखावट