पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्मः ] अधिकारकाण्डम् । • कः कृत्वा रावणाऽऽमर्षप्रकोपणमवद्यधीः । शक्तो जगति शक्रोऽपि कर्तुमायु: प्रगोषणम् ॥ १०५ ॥ (२७९) - कः कृत्वेत्यादि — अवद्यधी: योऽबुद्धिः रावणामर्पस्य प्रकोपणमभिवृद्धि कृत्वा आयुःप्रगोपणं कतु शक्रोऽपिकः शक्तः । 'हश्चेत् ||३|३१| इति णत्वम् । कुपगुपयोर्हलन्त योरिगुपधत्वात् ॥ १०५ ॥ वनान्तप्रेङ्खणः पापः फलानां परिणिंसकः । प्रणिक्षिष्यति नो भूयः प्रणिन्द्यास्मान्मधून्ययम् ॥ १०६ ॥ वनेत्यादि–प्रेमति गच्छतीति प्रपूर्वादिः कर्तरि ल्युट् । वनान्तस्य वन- समीपस्य प्रङ्खणः। ‘इजादे: सनुमः | ८४३२|' इति णत्वम् । फलानां परि- णिंसकः भक्षयिता । 'णिसि चुम्बने' इत्यस्य रूपम् । अस्मान् प्रणिन्द्य तिर- स्कृत्य । भूयः पुनरप्ययं मधूनि नोऽस्माक प्रणिक्षिप्यात भोक्ष्यति । ‘णिक्ष चुम्बने' इत्यस्य रूपम् ।‘वा सिनिअनिन्दाम् | ८|३|३३|| इति णत्वम् ||१०६|| हरेः : प्रगमन नास्ति न प्रभानं हिमद्रुहः । नाऽतिप्रवेपनं वायोर्मया गोपायिते वने ॥ १०७ ॥ - हरेरित्यादि — मया गोपायिते रक्षिते वने हरेरिन्द्रस्यापि चन्द्रस्य वा प्रगमनं संचारो नास्ति । हिमद्रुहः आदित्यस्य न प्रभानं न प्रकर्षेण दीप्तिः । वायोर्नातिप्रवेपनं मन्द्गमनम् । तदनेन भग्नमित्यर्थात् | 'कृत्यचः |८।४।२९।१ इति प्राप्तस्य णत्वस्य ‘न भाभूपूकमिगमिप्याथीवेपाम् । ८ । ४ । ३४ ।' इत्या- दिना प्रतिषेधः ॥ १०७ ॥ दुष्पानः पुनरेतेन कपिना भृङ्गसम्भृतः । प्रनष्टविनयेनाग्र्यः स्वादुः पुष्पाऽऽसवो वने ॥ १०८ ॥ दुष्पान इत्यादि – पुनरेतेन प्रनष्टविनयेन कपिना पुष्पासवो दुष्पान: दुःखेन पाम्यत इति 'आतो युच् |३|३||२८|' षात्पदान्तात् | ८ | ४ | ३५ ।' इति णत्वस्य प्रतिषेधः । भृङ्गसम्भृतो भ्रमरसंचितः । प्रनष्ट इति 'नशे: षान्तरय |८|४|३६|| इति प्रतिषेधः । अग्र्यः श्रेष्ठः ॥ १०८ ॥ राषभाममुखेनैवं क्षुभ्रतोक्ते प्लवङ्गमः । प्रोचे सानुनयं वाक्यं रावणं स्वार्थसिद्धये ॥ १०९ ॥ इति णत्वाधिकारः ।