पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७८) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः- किंचित् । पूर्ववण्णत्वम् । प्रणिजानीहि अवगच्छ । सत्यपि दोषे न हन्यन्ते दूंता इति । जानातेः शेषधातोरुपदेशावस्थायां अकखाद्यपान्तत्वात् । 'शेपे विभाषा कखादावषान्त उपदेशे |८|४|१८|' इति णत्वम् ॥ १०० ॥ प्राणचन्तमरिं प्रोचे राक्षसेन्द्रो विभीषणम् । प्राणिणिपुर्न पापोऽयं, योऽभाङ्क्षीत्प्रमदावनम् ॥ १०१ ॥ प्राणयन्तमित्यादि-आरं कपि यः प्राणयति जीवयति तं प्राणयन्ते विभीषणम् । ‘श्वस प्राणने । अन च' इत्यस्य रूपम् । 'अनि: |८।४।१९।१ इति णत्वम् । प्रोचे राक्षसेन्द्रः । न प्राणिणिषुः न जीवितुमिच्छुरयं पापः ‘उभौ साभ्यासस्य ।८।४|२१|' इति णत्वं द्वयोरपि । योऽभाङ्क्षीत् भग्नवान् प्रमदावनम् | हलन्तलक्षणा वृद्धिः ॥ १०१ ।। प्रावानिषत रक्षांसि येनाऽऽप्तानि वने मम | न प्रहण्मः कथं पापं वद पूर्वापकारिणम् ॥ १०२ ॥ प्रावानिषतेत्यादि-म - मम आप्तानि अक्षप्रभृतीनि येन वने प्रावानिषत मारितानि । कर्मणि लुङ् । चिण्वाद । 'हो हन्तेणिन्नेषु |७|३|५४ | इति घत्वम् । तपरपरिच्छिन्नाकारपूर्वस्य नकारस्य 'हन्तेरत्पूर्वस्य ८ | ४ |२२| इति त्वं न भवति । तं पूर्वापकारिणं पापं कथं न ग्रहण्म: मारयाम इति वद् कथय । ‘वमोर्वा |८|४|२३|| इति त्वम् || १०२ ॥ वेश्मान्तर्हणनं कोषान्मम शत्रोः करिष्यतः । मा कार्षीरन्तरयणं प्रयाणाईमवेह्यम् ॥ १०३ ॥ वेश्मेत्यादि — शत्रोर्वेश्मान्तः गृहमध्य एव हननं कोपान्मम करिष्यतः । ‘अन्तरदेशे ।८।४।२४।’ इति नकारस्य णत्वम् | इननस्याभावरूपस्यादेशत्वात् । अन्तरयणमन्तरायणं विघातं मा कार्षीः 'अयनं च |८|४|२५|' इति णत्वम् । प्रयाणार्हं दीर्घप्रस्थानार्हममुमवेहि अवगच्छ । 'कृत्यचः ||८|४|२९|| इति णत्वम् अच उत्तरस्य नकारस्य कृत्स्थत्वात् ।। १०३ ।। महीणजीवितं कुर्युर्ये न शत्रुमुपस्थितम् । जहाते न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्याशु महापणम् ॥ १०४ ॥ महीणेत्यादि-शत्रुमुपस्थितं ग्रहीणजीवितं ये न कुर्युः । 'आदितञ्च |८|२|४५|' इति निष्ठादेशनकारस्य पूर्ववण्णत्वम् । ते न्याय्याया अपि कुलक्रमादागताया अपि लक्ष्म्या: ग्रहापणं त्याजनं कुर्वन्ति ‘णैर्विभा-- था |८|४|३०|' इति णत्वम् ॥ १०४ ॥