पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | (२७७) चाहयितुमुपभोक्तुं शीलं यस्य तं परवीवाहिनम् । 'प्रातिपदिकान्तनुम् विभक्तिषु च ।८।४।११।' इति णत्वाभाव: पाक्षिकः । प्रापुः सुप्ठु निकटी- कृताः । साविष्काराः साहङ्काराः । सुरापिणः सुरापैर्युक्ताः । सुरां पित्रन्तीति ‘गापोष्टक्|३|२|८|| इति टक् | ते येषां सन्तीति मत्वर्थीयः । 'एका- जुत्तरपदे णः । ८।४। १२ ।' इति त्वम् | उत्तरस्य प्रातिपदिकान्तस्यै- कात्वात् ॥ ९६ ॥ संघर्षयोगिणः पादौ प्रणेमुखिदश द्विषः | महिण्वन्तो हनूमन्तं प्रमीणन्तं द्विषन्मतः ॥ ९७ ।। समित्यादि--संघर्षयोगिण: स्पर्धायोगिनः | 'कुमति च ||४|१३| 'इति णत्वम् । ते अन्योऽन्याभिभवेच्छया त्रिदशद्विपो रावणस्य पादौ प्रणेमुः ॥ 'उपसर्गादसमासेऽपि णोपदेशस्य |४|४|१४|| इति णत्वम् | हनूमन्तं प्रहि- ण्वन्तः ढौकयन्तः । द्विपन्मती: शत्रुबुद्धी: प्रमीणन्तम् अभिभवन्तम् । 'मीन् हिंसायाम् ।’ क्रैयादिकः । 'हिनुमीना |८|४|१५|' इति णत्वम् ।। ९७ ।। प्रवण शिरोभूमौ वानरस्य वनच्छिदः | आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः ॥ ९८ ।। प्रवपाणीत्यादि --अत्य वानरस्य वनच्छिदः शिरो भूभौ प्रवपाति छित्त्वा पातयाभि । 'आनि लोट् ||४|१६|' इति णत्वम् । वपिरत्र पातने वर्तते । संक्रुद्धः रक्षसां पतिः स्वामी समितिं समूहम् आमन्त्रयत भापितवान् ॥ ९८ ।। प्रण्यगादीत् प्रणिध्नन्तं घनः प्रणिनदन्निव | ततः प्रणिहितः स्वार्थे राक्षसेन्द्र विभीषणः ॥ ९९ ॥ प्रण्यगादीदित्यादि- ई-- तत उत्तरकालं विभीषणो राक्षसेन्द्रं प्रणिनन्तं हन्तुमारभमाणं प्रण्यगादीत् वक्तुं प्रवृत्तः । वन इव प्रणिनदन् गर्जन् । स्वार्थे राक्षसेन्द्रस्य प्रणिहितोऽवहितमनाः । सर्वत्र 'तेदनपतपघुमास्यति- हृन्तियातिवातिद्रातिप्सातित्रपतिवहतिशास्यतिचिनोतिदग्विषु च |८|४|१७| इति णत्वम् ।। ९९ ।। प्रणिशाम्य दशग्रीव ! प्रणियातुमलं रुषम् । प्रणिजानीहि हन्यन्ते दूता दोषे न सत्यपि ॥ १०० ।। -- प्रणिशाम्येत्यादि — हे दशप्रीव ! प्रणिशाम्य रोषं त्यज | लोटि श्यनि रूपम् । 'शमामष्टानां दीर्घः श्यति |७|३|७४|' इति दोषः । रुपं प्रणियातुमलं न