पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (२७५) इवे विसोढवन्तं 'सोढः |८|३|११५|' इति प्रतिषेधः । व्यतस्तम्भत् निष्पादि- तवान् । एवं नयन्तोऽवदन्निति योज्यम् । स्तस्भेर्ण्यन्तस्य 'स्तम्भुसिवसहां चाङ |८|३|११६।' इति पत्वप्रतिषेधः ।। ८९ ॥ ते विज्ञायाभिसोष्यन्तं रक्त रक्षांसि सव्यथाः । अन्यैरप्यायतं नेहुर्वरत्राशृङ्खलाऽऽदिभिः ॥ ९० ।। त इत्यादि---- ते राक्षासा: ये मारुतिं नेष्यन्तः । रक्तै: रक्षांसि विसोप्यन्तं अभिषेक्ष्यन्तं कपिम् । ‘सुनोते: स्योः |८|३|२१७ |' इति न षत्वम् । यद्या- ऋष्यमाणो न नीयेत अवश्यम् राक्षासान् रक्तः सोप्यतीति विज्ञाय सव्यथाः सभयाः सन्तः । अन्यैरपि वरत्राशृङ्खलादिभिरायतं दीर्घे नेहुः बध्नन्ति स्म ‘गह बन्धते' इत्यस्य लिटि रूपम् ॥ ९० ॥ विषसादेन्द्रजिद्बुद्धा बन्धे बन्धान्तरक्रियाम् । दिव्यबन्धी विषहते नापरं बन्धनं यतः ।। ९१ ॥ इति पत्वाधिकारः ॥ विषलादेत्यादि – बन्धे दिव्ये बन्धान्तरक्रियां बन्धनविशेषकरणं बुद्धाः 'इन्द्रजित् विषसाद विषादमुपगतः । नियतं दिव्यबन्धं मुक्तवानिति । यतो दिव्यबन्धो नापरं स्वयं बन्धनं विषहते । अतो विपसादेति योज्यम् । सदिस-- ज्ञ्ज्योः परत्य लिटि पत्वप्रतिषेधः । पूर्वस्य तु 'सदरप्रतेः । ८ । ३ । ६६ । इति भवत्येव । विषहत इति न प्रतिषेधः । तत्र सोढरूपस्य ग्रहणात् ॥ ९१ ॥ इति मूर्धन्याधिकारः । इतःप्रभृति णत्वमधिकृत्याह-- मुष्णन्तमिव तेजांसि विस्तीरस्थलं पुरः | उपसे दुर्दशग्रीवं गृहीत्वा राक्षसाः कपिम् ।। ९२ ।। मुष्णन्तमित्यादि ---राक्षसाः पुरः कपिमादाय दशग्रीवमासेदुः ढौकितव- न्तः । नतु दर्शनगोचरं गताः । अप्रभातत्वात् । कीदृशम् | तेजांसि मुष्णन्तमिव खण्डयन्तमिव । विस्तीर्णोर: स्थलं विस्तृतवक्षसम् । तत्र 'रषाभ्यां तो ‘णः समानपदे । ८ । ४ । १ ।' इति णत्वम् ।। ९२ ॥ बहुधा मिन्नर्माण भीमाः खरणसाऽऽद्यः । अग्रेवणं वर्तमाने प्रतीच्यां चन्द्रमण्डले || ९३ ॥