पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७४) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः - कात्स्यें सातिप्रत्ययः । तत्र 'नुम्बिसर्जनयिशव्यवायेऽपि |८|३||५८ | इति प्राप्तस्य पत्वस्य 'सात्पदाद्योः |८|३|१११|' इति 'प्रतिषेधः । युप्मदित्यादि- नोदाहृतं छान्दसत्वात् ।। ८५ ।। मधुसाद्भूतकिञ्जल्कपिञ्जरभ्रमराकुलाम् । उल्लसत्कुसमां पुण्यां हेमरत्नलतामिव ॥ ८६ ॥ मध्वित्यादि----मधुसाद्भूतकिञ्जकं कायेंन मधुतामापन्नम् यत्किञ्जकं पुप्पकेसरं तन्मधुसाद्भतकिञ्जल्कम् । 'आदेशप्रत्यययोः ||३|५९|' इति प्राप्तस्य पूर्ववत्प्रतिषेधः । तेन पिञ्जराः पिङ्गलाः ये भ्रमराः तैराकुलाम् । उल्लसत्कुसुमां चलत्पुप्पाम् हेमरत्नलतामिव । यथा हेमरत्नमयीं कल्पतरुलतां पुण्यां पवित्रां तद्वत्तामपीत्यर्थः ॥ ८६ ॥ विलोचनाम्बु मुञ्चन्तीं कुर्वाणां परिसेसिचाम् | हृदयस्येव शोकाऽग्निसंतप्तस्योत्तमव्रताम् ॥ ८७ ॥ 1 सम्बन्धः विलोचनेत्यादि-विलोचनाम्बु अश्रु मुञ्चन्तीं विक्षिपन्तीम् | हृदयस्य शोकाग्निसंतप्तस्य परिसेसिचाम् भृशं निर्वाणमिव कुर्वाणा मैक्षतेति पूर्वेण 'उपसर्गा- । सिर्यङन्तात् त्रीलिङ्गे भावे अकारप्रत्ययः त्सुनोतिसुवतिस्यीतस्तौतिस्तोभतिस्था सेन यसेघसिचसञ्जम्बञ्जाम् | ८ |३|६५|| इत्यभ्यासव्यवायेऽपि प्राप्तस्य पत्वस्य 'सिचो यङि | ८ | ३ | ११२ ।। इति प्रतिषेधः । उत्तमव्रतां पतिव्रतात्वात् ॥ ८७ ॥ दृष्ट्वा तामभनवृक्षान्द्विषो पारसेवतः । परितस्तान्विचिक्षेप क्रुद्धः स्वयमिवानिलः ॥ ८८ ॥ दृष्ट्वत्यादि---तां दृष्ट्वा वृक्षानभनक् चूर्णितवान् । द्विषः शत्रून् परिसेधतः आगच्छतः घ्नन् हिंसन् । पूर्ववत्प्राप्तस्य 'घर्गतौ |८|३|११३|' इति प्रतिषेधः। परितश्च समन्तादुद्विचिक्षेप उन्मूलितवान् । लिट: संयोगादित्वादकित्त्रे गुणः । क्रुद्धः स्वयमिव साक्षादिवानिलः ।। ८८ ॥ अप्रतिस्तब्धविक्रान्तमनिस्तब्धो महाहवे | विसोढवन्तमस्त्राणि व्यतस्तम्भद्धनध्वनिः ॥ ८९ ।। अप्रतीत्यादि --- घनध्वनिधनादः अनिस्तब्चोऽनभिभूतः अप्रतिस्तब्ध विक्रान्तम् अनभिभूतविक्रमं कपिम् । 'स्तन्भेः | ८|३|६७|' इति प्राप्तस्य षत्वस्य 'प्रतिस्तव्धनिस्तब्धौ च |८|३|११४|' इति प्रतिषेधनिपातनम् । अस्त्राणि महा- ।