पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् | अथ पञ्चभिः कुलकम् । सुप्रतिष्णातसूत्राणां कविष्ठलसमत्विषाम् । स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ॥ ८३ ॥ मुमतीत्यादि ---- येषां द्विजातीनां सुप्रतिष्णातानि ग्रन्थतोऽर्थतन्त्र निश्चितानि सूत्राणि तेषां सुप्रतिष्णातसूत्राणाम् । 'सूत्रं प्रतिष्णातम् |८ । ३ । ९० इति निपातनम् । कपिष्टलसमत्विषां कपिष्ठलो नाम द्विजपभो गोत्रप्रवर्तकः । 'कपिष्ठलो गोत्रे |८|३|११|| इति साधुः । तत्तुल्यतेजसां द्विजातीनां वृत्ते चरिते स्थितां मैथिलीं रात्रौ ऐक्षत || ८३ ॥ सर्गः ] कीदृशीमित्याह --- सर्वनागुणैः प्रष्ठां विष्टरस्थां गविष्ठिराम् । शयानां कुष्ठले तारां दिविष्ठामिव निर्मलाम् ॥ ८४ ॥ ( २७३) तारामिव सर्वोत्यादि -- यावन्तो नारीगुणा: तैः प्रष्टाम् अग्रगामिनीम् । 'प्रष्ठोऽग्र- गामिनि |८|३|९२|' इति साधु: । विष्टरस्थामासनस्थाम् | 'वृक्षासनयोर्विष्टरः १८|३|९३|' इति साधुः । गविष्ठिरां वाचि स्थिराम् । 'गवियुधिभ्याम् स्थिरः १८|३१९५॥ इति षत्वम् । अस्मादेव वचनात् सप्तम्या अलुकू । कुष्ठले शयानां को: स्थले भूतले शुद्धे । 'विकुशमिपरिभ्यः स्थलम् ।८।३।९६। इति पत्वम् । दिविष्ठशं दिवि तिष्ठतीति 'सुपि स्थः |३|२|१४|' इति कः । 'तत्पुरुषे कृति बहुलम् ||६|३|१४|' इति सप्तम्या अलुकू । गगनस्थ निर्मलाम 'अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क- गुमजिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः | ८|३|९७ |' इति षत्वम् ॥ ८४ ॥ सुषानीं सर्वतेजस्सु तन्वीं ज्योतिष्टमां शुभाम् । निष्टपन्तीमिवाऽऽत्मानं ज्योतिःसात्कुवर्ती वनम् ॥ ८५ ॥ सुषाम्नीमित्यादि -- शोभनं साम यस्या इति विगृह्य 'अन उपघालो- पिनोऽन्यतरस्याम् |४|१||२८|| इति ङीप् | सुषमादिषु च ||३१९८१ इति षत्वम् | सुष्टु प्रियंवदामित्यर्थः । तन्वीं कृशाम् | शुभां कल्याणीम् । सर्वतेजस्सु ज्योतिष्टमाम् अतिशयेन ज्योतिष्मतीम् । 'हस्वात्तादौ तद्धिते १८/३११०११' इति षत्वम् । एवं च कृत्वा निष्टपन्तीभिवात्मानं सकृज्ज्वल- यन्तीमिवात्मानम् । 'निसस्तपतावना सेवने |८|३|१०२१|' इति षत्वम् | वनं ज्योतिः सात्कुर्वतीं अज्योतिज्योतिः कुर्वाणाम् । कास्ये॑न दीपयन्तीमित्यर्थः ।