पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२७२) भट्टिकाव्ये जयमङ्गलासमेते- अग्निष्टोमादिसंस्थेषु ज्योतिष्टोमाऽऽदिषु द्विजान् | योऽरक्षीत्तस्य दूतोऽयं मानुषस्येति चावदन् ॥ ७९ ॥ अग्नीत्यादि----अग्निष्टोमादिसंस्थेषु सदृशेषु ज्योतिष्टोमादिषु यो द्विजान- रक्षीत् तस्य मानुषस्यायं दूत इति चावदन् । नयन्तो द्विषः । 'अग्नेः स्तुस्तोम- सोमाः । ८ । ३ । ८२ ।' 'ज्योतिरायुषः स्तोमः | ८ | ३ | ८३ । इति षत्वम् ॥ ७९ ॥ नासां मातृष्वसेय्याश्च रावणस्य लुलाव यः । मातुः स्वसुश्च तनयान् खरादीन्निजघान यः ॥ ८० ॥ m नासामित्यादि -- रावणस्य या मातुः स्वसा भगिनी सा मातृष्वसा | 'मातृपितृभ्यां स्वसा | ८ | ३ | ८४ ।' इति पत्वम् । तस्या अपत्यं मातृप्व- सेयी । 'मातृष्वसुश्च । ४ । १ । १३४ । इति ठगन्तलोपौ । तस्या यो नासां लुलाव । मातुः स्वसुश्च तनयान् खरादीन्निजधान | 'मातुः पितुर्भ्यामन्यतर- स्याम् | ८|३|८५|' इति षत्वाभावपक्षे 'विभाषा स्वसृपत्योः |६|३|२४|| इति षष्ठ्या अलुक् ॥ ८० ॥ प्रादुःषन्ति न संत्रासा यस्य रक्षःसमागमे । तस्य क्षत्रिय दुःपूतेरयं प्रणिधिरागतः ॥ ८१ ॥ [ नवमः- - प्रादुरित्यादि — यस्य रक्षः समागमे संत्रासा: भयानि न प्रादुःषन्ति न प्रादुर्भवन्ति । 'उपसर्गप्रादुर्भ्यामस्तिर्यचूपरः |८|३|८७॥ इति दुःशब्दादुत्तर- स्थास्तिसकारस्य 'असोरल्लोपः |६|४|१११|' इत्यल्लोपे कृते पत्वम् । प्रादुः- सकारस्य च टुत्वम् । तस्य क्षत्रियदुःपूतेः दुष्पुत्रस्यायं प्रणिधिरागत इति चावदन् नयन्तः । सूयत इति सुतिः । दुर्निन्दायामिति । सूते: सकारस्य 'सुविनिर्दुर्भ्यः सुपिसूतिसमाः |८|३|८८|| इति षत्वम् ॥ ८१ ॥ दृष्ट्वा सुषुप्तं राजेन्द्र पापोऽयं विषमाशयः । चारकर्मणि निष्णातः प्रविष्टः प्रमदावनम् ॥ ४२ ॥ 1 an दृष्ट्वेत्यादि -- राजेन्द्रं रावणं दृष्ट्वा प्रमदावनं प्रविष्टः । सुषुप्तं गाढ- निद्रम् | 'वचिस्वपियजादीनां किति । ६ । १ । १५ ।' इति सम्प्रसारणम् | पापोऽयं विषमाशयः । 'सुविनिर्दुभ्य: सुपिसूतिसमाः |८|३८|' इति षत्वम् । चारकर्मणि निष्णातः कुशलः । 'निनदभ्यिां स्नातेः कौशले |८|३|८९|' इति पत्वम् ॥ ८२ ॥