पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: ] अधिकारकाण्डम् | मेघनादः परिस्कन्दन् परिष्कन्दन्तमा वरिम् । अवघ्नादपरिस्कन्दं ब्रह्मपाशेन विस्फुरन् ॥ ७५ ॥ मेघनाद इत्यादि - मेघनाद इन्द्रजित परिस्कन्दन् परितो भ्रमन् । परिष्क- दन्तं परिभ्रमन्तमरिं कपिं ब्रह्मपाशेन ब्रह्मणा दत्तेन पाशेन आशु शीघ्र मात् बद्धवान् । लिङि नाप्रत्यये रूपम् । 'परेश्च |८|३|०७४ |' इति वा षत्वम् । अपरिस्कन्दम् अप्राच्यभरतत्वात् । तेन 'परिस्कन्दः प्राच्यभरतेषु' इति निपात- नम् । विस्फुरन् द्वेषाद्गच्छन्नित्यर्थः । 'स्फुरतिस्फुलत्योर्निर्निविभ्यः।८।३।७६।’ इति विभाषा षत्वम् ।। ७५ ॥ विस्फुलद्भिर्गृहीतोऽसौ निष्फुलः पुरुषाऽशनैः । (२७१ ) विष्कम्भितुं समर्थोऽपि नाऽचलद्ब्रह्मगौरवात् ।। ७६ ।। विस्फुल द्भिरित्यादि-- असौ कपिः पुरुषाशनैः राक्षसैः विस्फुलद्भिः हर्षा- चलद्भिगृहीतः । निष्फुल: सतेजा: । निष्फुलति दीप्यतीति पचाद्यच् । पूर्ववद्विभाषा षत्वम् । विष्कम्भितुं व्यापारितुं समर्थोऽपि ब्रह्मगौरवान्नाचलत् न चलितः । मा भून्मोघो ब्राह्मः पाश इति । 'वेः स्कनातेर्नित्यम् । ८ ।३। ७७ ।' इति षत्वम् ।। ७६ ॥ कृषीवं भर्तुरानन्द मा न प्रो द्रुतं वियत् । बानरं नेतुमित्युच्चैरिन्द्रजित्मावदत् स्वकान् ॥ ७७ ॥ कृषीवमित्यादि-~-भर्तुः रावणस्य आनन्दं कृषी अतो वानरं द्रुतं नेतुं वियदाकाशं मा न लुङ्। 'इणः षीध्वंलुलिटां घोऽङ्गात् । ८ । ३ । ७८ ।। इति धकारस्य मूर्धन्यढकारः । इत्येवमुच्चैरिन्द्राजित् स्वकान् भृत्यान् प्रावदत् । वदे- लेङि रूपम् ॥ ७७ ॥ कुरुध्वम् । लिङि रूपम् । प्रो मा नोत्पतिष्ट । माङि गतमङ्गुलिषङ्गं त्वां भीरुष्ठानादिहाऽऽगतम् । खादिष्याम इति प्रोचुर्नयन्तो मारुतिं द्विषः ॥ ७८ ।। गतमित्यादि -- अंगुलीनां सङ्गः अङ्गुलिषङ्गस्तं गतं प्राप्तम् । हस्तप्राप्तमित्य-- ‘र्थः । 'समासेऽङ्गुलेः सङ्गः ।८ ।३ । ८० ।' इति षत्वम् । भीरोः कातरस्य यत् स्थानं तस्माद्भीरुष्ठानादिहागतम् । 'भीरो: स्थानम् |८| ३ | ८१ ।' इति षत्वम् । `खादिष्याम इति प्रोचुः । द्विषो राक्षसा मारुतिं नयन्तो नेप्यन्तः । वर्तमान- सामीप्ये भविष्यति लट् ॥ ७८ ॥