(२७०) भट्टिकाव्ये जयमङ्गलासमेते- सङ्ग्रामे तानाधष्ठास्यन् निषद्य पुरतोरणम् | अविषीदन्नवष्टब्धान् व्यष्टभ्रान् नरविष्वणान् ॥ ७२ ॥ [ नवमः - सङ्ग्राम इत्यादि – ये प्राणिनः अभिषिञ्चन्ति तान्नरविष्वणान् राक्षसान् । सङ्ग्रामे अधिष्ठांस्यन् अस्वतन्त्रीकरिष्यन् कपिः । 'उपसर्गात्सुनोतिसुवति- स्यतिस्तौतिस्तोभतिस्था सेनय सेधीसच सञ्जस्व जाम् |८|३|६५|| इति षत्वम् । पुरतोरणं पुरद्वारं व्यष्टनात् आश्रितवान् । निषद्य तत्रैव पुरतोतरणे स्थित्वा प्राणिनो मा प्रविक्षुरिति अविषीदन् विषादमगच्छन् । निषद्याविषीदन्निति ‘सदिरप्रतेः ।८।३।३६।' इति षत्वम् । अवष्टब्धान् अविदूरान् । 'अवाञ्चाल- म्बनाविदूर्ययोः ।८।३।६८।' इति षत्वम् । व्यष्टम्नादिति अव्यवाये वेः 'स्तन्भेः १८।३।६७।' इति षत्वम्। 'स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः अनुश्च | ३|१|८२ | इति स्नाप्रत्ययः । सशब्दायामभ्यवहारक्रियायां स्वनतिर्वर्तते । नराणां वित्रणा इति समासः । नरान् सशब्दमभ्यवहरन्त इत्यर्थः । 'वेश्च स्वनो -भोजने |८|३|६९ ।। इति षत्वम् ॥ ७२ ।। विषह्य राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन् । यन्न व्यपहतेन्द्रोऽपि कपिः पर्यपहिष्ट तत् ॥ ७३ ॥ विषह्येत्यादि-विषह्य सोढा कपिचेष्टितमित्यर्थात् | 'सात्पदाद्योः । ८ । ३ । १११ ।' इति प्रतिषेधे प्राप्ते 'परिनिविभ्यः सेवसित सयसिवुसहसुद्स्तु- स्वञ्जाम् | ८|३|७०।' इति पत्वम् । राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन विक्षि- प्तवन्तः । लङि रूपम् । यच्च शस्त्रजालमिन्द्रोऽपि न व्यषहत न सोढवान् । लङि रूपम् । तत्कपिः षर्यपाहिष्ट | लुङि रूपम् । सहे: 'सिवादनां वाड्व्यवा- येऽपि |८|३|७१ |' इति विभाषा षत्वम् ॥ ७३ ॥ विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान् । विष्कन्तॄन्परिघेण्णाहन्नविस्कन्ता कपिद्विषः ॥ ७४ ॥ विष्यन्देत्यादि-विष्यन्दमानरुषिरः रक्तः कपिः परिघेणाहन् ताडित- वान् । द्विषः शत्रून् । रक्तविस्यन्दपाटलान् रक्तस्रुतिलोहितान् 'अनुविपर्य- भिनिभ्यः स्यन्दतेरप्राणिषु । ८ । ३ । ७२ |' इति विभाषा षत्वम्, रक्तस्याप्रा- गणित्वात् । विष्कन्तन् । विविधं स्कन्तुं गन्तुं शीलमेपामिति तृन् । अविस्कन्ता कपिः अगमनशील स्थानशील इत्यर्थः । 'वेः स्कन्देरनिष्ठायाम् | ८ | ३ | ७३। • इति विभाषा षत्वम् ।। ७४ ।।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०८
दिखावट