सर्गः ] अधिकारकाण्डम् । ( २६९ ) प्रोषितत्रासः प्रोषिताद्रामादुपगतभयः । कर्कशञ्च रौद्रः । प्रोषित इति यजादि-- त्वात्संप्रसारणम् । षत्वं पूर्ववत् ॥ ६८ ॥ प्रतुष्टूपुः पुनयुद्धमासिपञ्जयिषुर्भयम् । आतस्थौ रथमात्मीयानुत्सिसाहयिषन्निव ॥ ६९ ॥ प्रतुष्टष्परित्यादि---अश्वा आनीता इति पुनरपि युद्धं प्रतुष्टृषुः प्रस्तातुमार-- व्धुमिच्छुः सन् । 'अज्झनगमां सनि |६|४|१६|' इति दीर्घः । 'सनाशंस-- भिक्ष उः |३|२|१६८।': इत्यु: । 'न लोकाव्ययनिष्ठाखलर्थतृनाम् | २|३|६९।१ इति षष्टीप्रतिषेधः । रथमातस्थौ आरूढवान् । भयमासिषञ्जयिषुः संश्लेषयि- तुमिच्छुः हनूमता । अत्र स्तोते: सनि षत्वभूतसञ्जेच 'स्तौतिण्योरेव षण्यभ्यासात् | ८ | ३|६१ | इति अभ्यासादुत्तरस्य षत्वम् । आत्मीयान् भृत्यानुत्सिसाहयिषन्निव उत्साहयितुमिच्छन्निव युध्यध्वमिति । त्यादिना पत्वे प्राप्ते 'स: स्विदिस्वादसहीनां च ||३|६२|| इति षकारस्य सत्वम् ।। ६९ ।। स्तौती-- C- बलान्याभषिषिक्षन्तं तरुभिः कपिवारिदम् । विजिगीषुः पुनश्चक्रे व्यूहं दुर्जयमिन्द्राजित् ॥ ७० ॥ बळानीत्यादि ---- कपिवारिदं कपि वारिदमिव । बलान्यभिषिषिक्षन्तं तरुभिः अभिषेक्तुं छादयितुमिच्छन्तम् । 'स्थादिष्वभ्यासेन चाभ्यसत्य | ८८ ३ । ६४ ।' इत्यभ्याससकारस्य च षत्वम् । तमेवंविधं कपिम् विजिगीषुर्विजेतुमिच्छुः इन्द्रजित् । 'सॅल्लिटोर्जे: । ७ । १ । ५७ ।' इति कुत्वम् । पुनर्व्यूहं बलसन्निवेशं दुर्जयाख्यं चक्रे । हस्त्यश्वादिसैनिकानां मण्डलस्थित्या विरच्यते ॥ ७० ॥ अभिष्यन्तः कपि क्रोधादभ्यपिञ्चन्निवात्मनः । सम्प्रहारसमुद्रतै रक्तैः कोष्णैररुच्युतैः ॥ ७१ ॥ अभिष्यन्त इत्यादि ----राक्षसाः क्रोधादात्मनोऽभिप्यन्तः अन्तं नयन्तः । ‘पोऽन्तकर्मणि' इत्यस्माच्छतारी 'ओत: इयान |७|३|७११ इत्योकारलोपः । 'उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तो भतिस्थासेनय सेबसिचसञ्जस्व जाम् | ८ | ३१६५|' इति पत्वम् । सम्प्रहारसमुद्भूतः रक्तैः कोष्णैरीपटुष्णैः । अरु इच्युतैः व्रणानिर्गतैः कपिमभ्यपिञ्चन्निव अभिषिक्तवन्त इव । लाङे रूपम् । 'प्राक् सितादयवा येऽपि |८|३|६३ || इति पत्वम् ॥ ७१ ।।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०७
दिखावट