पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६८) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः - इत्यर्थः । पूर्ववत् षत्वम् | यशस्करो यशोजननशीउ: । इन्द्रजित यशस्कामं यशसि कामोऽस्येति तं कपिं बाणैरवाकिरत् अताडयत् । 'अत: कृकमि - कंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य |८|३|४६ ।" इत्यनव्ययविसर्जनीयस्य सत्वम् ।। ६५ ।। चकाराऽधस्पदं नासौ चरन् वियति मारुतिः । मर्माविद्भिस्तमस्काण्डैर्विध्यमानोऽप्यनेकधा |॥ ६६ ॥ इति सत्वाधिकारः । न्चकारेत्यादि — असौ मारुतिर्वियति चरन् अधस्पदं पृथिव्यां पदं न चकार । अधस्पदमिति मयूरव्यंसकादित्वात्समासः | कस्कादिषु च || ३ | ४८ इति सत्वम् । मर्माणि विध्यन्तीति क्किप् । 'नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ।६।३ । ११६।' इति पूर्वपदस्य दीर्घत्वम् ।। ६६ ।। इति सत्वाधिकारः । इतः प्रभृति ‘अपदान्तस्य मूर्धन्यः |८|३|५५|' इत्यधिकृत्याह-- पुरुहूतद्विषो धूर्षु युक्तान् यानस्य वाजिनः । आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिरमोचयत् ॥ ६७ ॥ पुरुहूतेत्यादि -- पुरुहूतद्विष इन्द्रजितः संबन्धिनो यानत्य रथस्य धूर्षु युक्तान् वाजिनः त्वक्षु चर्मसु निर्भिद्य प्राभञ्जनिर्मारुतिरायूंषि जीवितानि अमोचयत् त्याजितवान् | धूर्षु त्वक्ष्विति 'आदेशप्रत्यययोः |८|३|५९|' इति षः । प्रत्ययसकारत्वात् । तत्र हि 'इएकोः' इति वर्तते । परेण च णकारेण प्रत्याहारः । आयूंपीति ‘नुम्बिसर्जनीय शर्व्यवायेऽपि |८|३|५८|' इति षत्वम् । ‘सहेः साडः सः ।८।३।५६ || इति छन्दोविषयत्वान्नोदाहृतम् । ततः 'छन्दसि सहः ।३।२।६३|' इति विप्रत्ययस्य विधानात् । एवं च 'पृतनाषाद्विष' इति पाठान्तरमयुक्तम् ॥ ६७ ॥ सुषुपुस्ते यदा भूमौ रावणिः सारथिं तदा । आहर्तुमन्यानाशेषत्मोषितत्रासकर्कशः ॥ ६८ ।। सुषुपुरित्यादि - - ते यदा भूमौ सुपुपुः निपेतुः । आदेशसकारत्वात् 'पूर्ववत् षत्वम् । तदा रावणिरन्यानश्वानाहर्तुमानेतुं सारथिमशिषत् आदिष्ट - 'वान् । 'सर्तिशास्त्यर्तिभ्यश्च | ३ | १ | ५६ ।' इत्यङ् । 'शास इदङ्लो: । ६ । ४|३४|' इतीकारः । 'शासिवसिघसीनां च । ८ । ३ । ६० ।। इति षत्वम्