पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (२६७) चतुरित्यादि – चतस्रः काष्ठा दिशो यस्मिन् क्षेपण इति क्रियाविशेष णम् । पूर्ववत् षत्वम् । चतसृषु दिक्षु वृक्षान् रणे क्षिपन् भ्रमन् एकोऽपि बहुधा "ददृशे दृष्टः कपिः । क्षिपन्निति तौदादिकः । अरींस्तिरस्कुर्वन् अभिभवन् तिरस्कृतदिगाभोगः अपनीतदिग्विस्तरः । 'तिरसोऽन्यतरस्याम् । ८ । ३ ।४२।१ इति पक्षे सत्वम् ।। ६२ ।। अथ युग्मम् । द्विष्कुर्वतां चतुष्कुर्वन्नभिघातं नगैद्विषाम् । बहिष्करिष्यन् सङ्ग्रामाद्रिपून् ज्वलनपिङ्गलः ॥ ६३ ॥ - द्विष्कुवेतामित्यादि – असौ कपिराटीदिति वक्ष्यमाणेन सम्बन्धः । कीदृशः । द्विष्कर्वतां द्वौ वारावभिघातं कुर्वतां द्विषां चतुष्कुर्वन् चतुरो वारान् नगैर्वृक्षैरभिघातं कुर्वन् । 'द्वित्रिचतारीत कृत्वोऽर्थे । ८ । ३ | ४३ ।। इति विसर्जनीयस्य वा षत्वम् । अरीन् संग्रामाद्बहिष्करिष्यन् अपनेण्यामीति | ‘इसुसोः सामर्थ्ये । ८ । ३ | ४४ ।' इति विसर्जनीयस्य पक्षे षत्वम् | सामथ्य चात्र व्यपेक्षा, नैकार्थीभावः । बहिष्करिष्यन्निति द्वयोः परस्पर- । व्यपेक्षत्वात् ॥ ६३ ॥ ज्योतिष्कुर्वन्निवैकोऽसावाटीत्सङ्ख्ये परार्ध्यवत् । तमनायुष्करं प्राप शऋशत्रुधनुष्करः ॥ ६४ ॥ ज्योतिरित्यादि—एकोऽपि ज्वलनपिङ्गलः ज्योतिष् कुर्वन्निव अि दीपयन्निव । पूर्ववत्पक्षे विसर्जनीयस्य षः । परार्थ्यवत् दिव्य इव । परार्धो धुलोकः । ब्रह्माण्डसंबन्धिन ऊर्ध्वभागस्योत्कृष्टत्वात् । तत्र भव इति. ‘परावराधमोत्तमपूर्वाच्च | ४ | ३|५|| इति यत् । संख्ये संग्रामे आटीत् परिचक्राम । ‘इट ईटि । ८ । २ । २८ ।' इति सिचो लोपः । तं वानरमनायुष्करं प्राणाप- र शत्रुरिन्द्रजित् प्राप प्राप्तवान् । धनुष्कर: धनुः करे यस्येति । 'नित्यं समासेऽनुत्तरपदस्थस्य |८|३|४५॥ इति षत्वम् ॥ ६४ ॥ अस्यन्नरुष्करान् बाणान् ज्योतिष्करसमद्युतिः । यशस्करो यशस्कामं कार्प बाणैरताडयत् ॥ ६५ ॥ अस्यन्नित्यादि - बाणानरुष्करान् व्रणजनकान् । 'दिवाविभा-|३|२||२१| इत्यादिना टः । अस्यन् क्षिप्यन् । ज्योतिष्करसमद्युति: ज्योतिष्करणशीलः आदित्यः । 'कृञो हेतुताच्छील्यानुलोम्येषु |३|२|२०|' इति टः । तेन तुल्या