पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २६६ ) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः- वानर इत्यादि- - वानरः कुलशैलाभ: संग्रामे स्थिरत्वात् । आयुधं शीकरमिव नैरन्तर्येण पतनात् । प्रसह्याभिभूय । 'कुप्वोः कौ च |८|३| ३७ ।' इति वा जिह्वामूलीयोपध्मानीयौ । रक्षस्पाशान् कुत्सितराक्षसान् । 'याप्ये पाशप् । ५३ | ४७ ।' स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यति- वर्तन्ते । यशस्काम्यन् आत्मनो यश इच्छन् । अत्र तकारे परतः 'नश्छ- व्यप्रश।न् । ८ । ३ । ७ ।' इति रुत्वं विसर्जनीयसकारौ च पूर्वस्यानुना- सिकः । तमस्कल्पान् ईषदसमाप्ततमसः । कुप्वोरपवादः 'सोऽपदादौ । ८ । ३ । ३८ ।' इति सकारः । तत्र 'पाशकल्पककाम्येषु' इति परिगणनम् । अदुः द्रुवत् ढौकते स्म । ‘णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ् | ३ । १ । ४८ ।' इति चङ् ॥ ५९ ॥ धनुष्पाशभृतः सङ्ख्ये ज्योतिष्कल्पोरुकेशरः । दुधाव निर्नमस्कारान् राक्षसेन्द्र पुरस्कृतान् ॥ ६० ॥ धनुरित्यादि --धनुष्पाशभृतः कुत्सितधनुर्धरान राक्षसान् । ज्योतिष्क- ल्पोरुकेशरः अग्नितुल्यबृहत्सटो वानरः । 'इण: षः । ८ । ३ । ३९ । इति पाशादिष्वेव विसर्जनीयस्य षत्वम् । दुधाव कम्पितवान् । यस्मान्निर्न- मस्कारान् अप्रणामान् । राक्षसेन्द्रेणेन्द्रजिता पुरस्कृतान् अग्रतः स्थापितान् । 'नमस्पुरसोर्गत्योः । ८ । ३ | ४० || इति विसर्जनीयस्य सकारः । इण उत्तरस्य तु विसर्जनीयस्य स एवाधिक्रियते । तत्र नमःशब्दस्य साक्षात्प्रभृतिषु पाठात् । पुरःशब्दस्य 'पुरोऽव्ययम् । १ । ४ । ६७ ।' इति गतिसञ्ज्ञा ।। ६० ।। स्वामिनो निष्क्रयं गन्तुमाविष्कृतबल: कपिः । रराज समरे शत्रून् नन्दुष्कृतबहिष्कृतः ॥ ६१ ॥ स्वामिन इत्यादि — स्वामिनः सुग्रीवस्य निष्क्रयमानृण्यं गन्तुं शत्रून् । - दुष्कृत- मन् विनाशयन् कपिः रराज । आविष्कृतबलः प्रकटितसामर्थ्यः बहिष्कृतः । दुष्कृतं पापं वहिष्कृतमनेनेति 'वाहिताग्न्यादिषु | २ | २|३७७' इति द्रष्टव्यम् । सर्वत्र 'इदुदुपधस्य चाप्रत्ययस्य |८ । ३ | ४१ ।' इत्यने - नाप्रत्ययविसर्जनीयस्य पत्त्रम् ॥ ६१ ॥, चतुष्काष्ठं क्षिपन् वृक्षान् तिरस्कुर्वन्नरीत्रणे | तिरस्कृतदिगाभागो ददृशे बहुधा भ्रमन् ॥ ६२ ॥