पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः 1 अधिकारकाण्डम् । आश्वसीदिव चायाति तद्वेगपवनाहतम् । विचित्रस्तव कोद्भासि वनं लुलितपल्लवम् ॥ ५६ ॥ आश्वसीदित्यादि -- तस्मिन्नायाति वनं तद्वेगपवनाहतं सत् आश्व सीदिव संजीवितमिव । लङि रूपम् । यतो विचित्रस्तबकोद्भासि लुलितपल्लवं च जात - म् । पूर्ववदिट् ॥ ५६ ॥ न प्राणिषि दुराचार मायानामीशिषे न च । नेडिषे यदि काकुत्स्थं तमूचे वानरो वचः ॥ ५७ ॥ इतीडधिकारः । (२६५) नेत्यादि- - वानरस्तमागच्छन्तमिदं वचनमूचे | हे दुराचार ! न प्राणिषि न जीवसि । ‘अन च' इत्यस्य रूपम् । पूर्ववदि । 'अनितेः |८|४|१९|' इति णत्वम् । न च मायानामीशिषे नोशिता भवसि । 'ईश: से |७|२|७७ |' इतीट् । ‘अधीगर्थदयेशां कर्म्माणि | २|३|५२|| इति कर्मणि षष्ठी । यदि काकुत्स्थं नेडिषे न स्तौषि । 'ईडजोर्ध्वे च |७|२|७८ |' इति चकारात् से चेतीट् ॥ ५७ ॥ इतोडधिकारः । इदानीं 'विसर्जनीयस्य सः |८|३|३४|' इत्यधिकृत्याह- ससैन्यश्छादयन्संख्ये प्रावर्तिष्ट तमिन्द्रजित् । शरैः क्षुरमैमयाभिः शतशः सर्वतो मुहुः ॥ ५८ ॥ ससैन्य इत्यादि — इन्द्रजित् ससैन्यः सबलः तं वानरं सर्वतः शरैः क्षुरप्रैः भल्लैः : छादयन् मुहुः क्षणं मायाभिः शतशोऽनेकधा संख्ये प्रावर्तिष्ट प्रवृत्तः । लुङि रूपम् । तत्र ससैन्यश्छादयन् इत्यत्र । 'विसर्जनीयस्य सः |८|३|३४|| इति सत्वं छकारे परे श्चुत्वम् । शरैः क्षुरप्रैरिति सत्वापवादः । शर्परे खरि विसर्ज- नीयस्य विसर्जनोयः विसर्जनीयस्य विकारनिवृत्त्यर्थः । मायाभिः शतशः सर्वत इति 'वा शरि | ८ | ३ | ३६|' इति विकल्पः विसर्जनीय: सकारो वा ।। ५८ ॥ वानरः कुलशैलाभः प्रसह्यायुधशीकरम् । रक्षस्पाशान्यशस्काम्यस्तमस्कल्पानदुद्रुवत् ॥ ५९ ॥