पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२६४) भट्टिकाव्ये जयमङ्गलासमेते- गते तस्मिन्नुपारंसीत्संरम्भाद्रक्षसां पतिः । इन्द्रजिद्विक्रमाभिज्ञो मन्वानो वानरं जितम् ॥ ५२ ॥ - गत इत्यादि — गते तस्मिन् रक्षसां पतिः रावण: संरम्भात् क्रोधादुपारं- सीत् निवृत्तवान् । पूर्ववत्सगिटौ । रमेः 'उपाच्च | १|३|८४ | इति तिपू । स इन्द्रजित् वानरं जितं मन्वानोऽवगच्छन् । यतो विक्रमाभिज्ञः । अगादिति वक्ष्यमाणेन सम्बन्धः ॥ ५२ ॥ अथ युग्मम् । संसिम्म यिषमाणोऽगान्मायां व्यञ्जिजिषुर्द्विषः । जगत्पिपविषुर्वायुः कल्पान्त इव दुर्धरः ॥ ५३ ॥ लोकानाशिशिषोस्तुल्यः कृतान्तस्य विपर्यये । [ नवम्ः- बने चिकरिषोवृक्षान्बलं जिगरिषुः कपेः ॥ ५४ ॥ संसिस्मयिषमाण इत्यादि -- संसिस्मयिषमाणः उपहासतुमिच्छन् द्विषः शत्रून्ं । अगात् गतवात् । ‘पूर्ववत्सनः ||१|३|६२|' इति तङ् । मायां व्यञ्जि- जिषुः व्यक्तीकर्तुमिच्छुः । 'स्मिपूशांस ||२|७४|इती | ता- ज: 'नन्द्राः संयोगादयः |६|१|३|' इति नकारो न द्विरुच्यते । कल्पान्ते युगान्ते वायुरिव दुर्धरः जगत् पिपविषुः पवितुमुत्क्षेप्तुमिच्छुः विपर्यये विनाश- काले लोकानाशिशिषोः भक्षयितुमिच्छोः । कृतान्तस्य तुल्योऽगादिति पूर्वेण संबन्धः । पूर्वव ि| वने वृक्षांश्चिकरिपोः विक्षेतुमिच्छोः । कपेर्बलं सामर्थ्य जिगारपुः अपनेतुमिच्छुः । कृप्रोरुगन्तत्वात् 'सनि ग्रहगुहोच |७|२|१२|' इति प्रतिषेधे प्राप्ते ‘इट् सनि वा । ७७२।४१ |' इति विकल्पे प्राप्ते 'किरश्च पञ्चभ्यः | ७।२।२५।' इतीट् । किरतेरिटो दीर्घत्वं नेच्छन्तीति न दीर्घः ॥ ५३ ॥ ५४ ॥ रोदिति स्मेव चाऽयाति तस्मिन्पक्षिगणः शुचा । मुक्तकण्ठं हतान्वृक्षान्बन्धून्बन्धोरिवाऽऽगमे ॥ ५५ ॥ रोदितीत्यादि ·--तस्मिन्निन्द्रजिति आयात्यागच्छति सति पक्षिगण: हतान् वृक्षान् कपिनाशितान् शुचा शोकेन मुक्तकण्ठं सशब्दं नामग्राहं रोदिति स्मेव रुदितवानिव । नामग्रहणपूर्वया रोदनक्रियया व्याप्यमानत्वात् वृक्षाणां कर्मसंज्ञा । 'रुदादिभ्यः सार्वधातुके |७|२|७६ | इती | बन्धून बन्धोरिव यथा बन्धो रागमने कश्चित् बन्धून् रोदिति ।। ५५ ।।