पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । त्वं ससर्जिथ शस्त्राणि दद्वष्ठाऽरींश्च दुःसहान् । शस्त्रैरादिथ शस्त्राणि त्वमेव महतामपि ॥ ४८ ।। स्वमित्यादि — शस्त्राणि त्वं ससर्जिथ क्षिप्तवानसि । अरींश्च दुःसहान् युध्यतः दुद्रष्ठ दृष्टवानसि न पलायितोऽसि । 'विभाषा सृजिदृशोः । ७ । २ । ६५ ।' इति थलि विभाषेट् । अनिट्पक्षे ' सृजिदृशोर्झल्यमकिति । । ६ । १ । ५८ ।' इत्यम् । षत्वष्टुत्वे । महतामपि मध्ये त्वमेव शस्त्राणि पर- कीयानि शस्त्रैः स्वैरादिथ जग्धवानसि । 'इडत्यतिव्ययतीनाम् । ७ ।२ । ६६ ।' इत्यदेरिट् ॥ ४८ ॥ स त्वं हनिष्यन्दुर्बुद्धिं कपि व्रज ममाऽऽज्ञया । मा नाडी राक्षसीर्मायाः प्रस्तावीर्मा न विक्रमम् ॥ ४९ ॥ स त्वमित्यादि -- स त्वमेवंविधः कपिं दुर्बुद्धिं चपलत्वाद्धनिष्यन् हनिष्या- मीति मदाज्ञया व्रज । ‘ऋद्धनोः स्यै । ७ । २ । ७० ।' इतीट् । ‘वस्वेका- जावसाम् ।७।२।६७ ।' इत्यादिसूत्रत्रयं नोदाहृतम् । वस्वादेशस्य छन्दोविषयत्वात् । राक्षसीर्माया मा नाजी: मा न व्यक्तीकुरु । अपि तु व्यक्तीकुर्वित्यर्थः । 'अञ्जेः सिचि । ७ ।२ । ७१ ।' इतीट् । विक्रमं न मा प्रस्तावीः मा 'स्तुसुधूञ्भ्यः परस्मैपदेषु । न प्रारभस्व 1 ७ । २ । ७२ ।' इतीट् ॥ ४९ ॥ मा न सावीमहाऽस्त्राणि मान धावीररिं रणे । वानं मा न संयंसीव्रज तूर्णमशङ्कितः ॥ ५० ॥ (२६३) मा नेत्यादि-रणे महास्त्राणिमा न सावीः मा न प्रसुहि । मा न मुञ्चेत्यर्थः । ‘षु प्रसवैश्वर्ययोः’ इत्यस्य रूपम् । अरिश्च मा न धावी: मान कम्पय अपि तु भीषयस्वेत्यर्थः । पूर्ववदिट् । वानरं मान संयंसी: मा न वधीः । 'यमरमनमातां सक् च | ७|२|७३ |' इति सगिटौ | ‘समुदायो यमो ग्रन्थे ।१॥ ३।७५।' इति तङ् न भवति । तत्राकर्मकादिति वर्तते । यत एवं तस्मादशङ्कित स्तूर्ण व्रज ॥ ५० ॥ अनंसीच्चरणौ तस्य मन्दिरादिन्द्राजद्रजन् । अवाप्य चाशिपस्तस्मादायासीत्मीतिमुत्तमाम् ॥ ५१ ॥ अनंसीदित्यादि-एवमुक्त इन्द्रजित् मन्दिरात् ब्रजन् गमिष्यन् । 'वर्तमान सामीप्ये वर्तमानवा | ३ | ३ | १३१|| इति लट् | तस्य पितुश्चरणावनंसीत् नत- वान् । तस्माद्रावणाद| शिष अवाप्योत्तमां प्रीतिमायासीत् । पूर्ववत्सगिटौ ॥५१॥