( २६२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः - च यदीत्यादि--रक्षःपतेः रावणस्य स्वयं योद्धुं यद्यभिप्रायोऽकल्प्स्यत् सम- पत्स्यत् । 'तासि च क्लृपः । ७ । २ । । ६० ।। इति चकारात् स्यकारे 'नेट् | तदा तमप्यहमकर्त्यम् उत्सारयामि । अहमद्येति एवं वदन् कपि- वैनमचरत् । ‘सेऽसिचि कृतचृतछृदतृदनृतः । ७ । २ । ५७ ।' इति विभा- षेट् । अकल्प्स्यदकर्त्स्यमिति च ' लिङ्निमित्ते लङ् क्रियातिपत्तौ । ३ । ३ । १३९ ।' इति लङ् । हेतुहेतुमद्भावश्च लिङो निमित्तम् ॥ ४४ ॥ हते तस्मिन्प्रियं श्रुत्वा कल्प्ता प्रीतिं परां प्रभुः । तोषोऽद्यैव च सीतायाः परश्चेतसि कल्प्स्यति ॥ ४५ ॥ हत इत्यादि --तस्मिन् रक्षः पतौ हते प्रियं श्रुत्वा प्रभुः रामः परां प्रीतिं कल्ला जनयिता। अत्रान्तर्भावितो व्यर्थः । धातोरकर्मकत्वात् । सीतायाश्चा- द्यैव चेतसि तोषः परो महान् कल्प्स्यति सम्पत्स्यते । 'तासि च क्लृपः । ७ / २१६० । इतीप्रतिषेधः । 'लुटि च क्लृपः । १ । ३ । ९३ । इति परस्मैपदम् ॥ ४५ ॥ आहूय रावणोऽवोचदथेन्द्रजितमन्तिकात् । वने मत्त इव क्रुद्धो गजेन्द्र प्रधनेष्वटन् ॥ ४६ ॥ आहूयेत्यादि - -अथ रावणः इन्द्रजितमाहूय अन्तिकमवोचत् । किमबो- चदित्याह——वने मत्त इव । यथा गजेन्द्रो मत्तः क्रुद्वो वने पर्यटन् द्विषा- मन्तं गतवान् तथा त्वं प्रधनेषु संग्रामेष्वटन् । द्विषामन्तं ययाथेति वक्ष्यमाण- श्लोकेनान्वयः ॥ ४६ ॥ ययाथ त्वं द्विषामन्तं भूयो यातासि चाऽसकृत् । शशक्थ जेतुं त्वं देवान्मायाः सस्मर्थ संयति ॥ ४७ ॥ ययाथेत्यादि- -- न केवलं ययाथ, भूयः पुनरपि यातासि यास्यसि । यातेः. क्रांदि नियमात् प्राप्तस्येट: 'अचस्तास्वत्थल्यनिटो नित्यम् । ७ । २ । ६१ ।' इति प्रतिषेधः । तस्य हि तासौ नित्यमनित्वम् । 'अजन्ता धातवोऽनुदात्ता: इति वचनात् । देवान् जेतुं त्वमसकृत् बहुधा शशक्थ शक्तोऽसि । 'उप- देशेऽत्वतः । ७ । २ । ६२ ।। इति थलीप्रतिषेधः । शकेस्तासौ नित्यानिट्- त्वम् । शकिस्तु कान्त इति वचनात् । मायाश्च कूटयुद्धानि । संयति युद्धे । सस्मर्थ ज्ञातवानसि । 'ऋतो भारद्वाजस्य | ७ | २ | ६३ ।। इतीट् - प्रतिषेधः ॥ ४७ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३००
दिखावट