सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- इती प्रतिषेधाधिकारः । भयेत्यादि - ततस्ते राक्षसाः कपिना क्षणेन क्षयं विनाशममनेषत. नीताः । कर्मणि लुङ् 1 भयसंहृष्टरोमाण: भयोद्गतरामाञ्चाः । 'हृषेर्लोमसु ।७।२।२९।' इति विभाषितेट् । अपचितद्विषः अपचितानाम् पूजितानां ऋषीणां शत्रवः | 'अपचितच १७|२|३०|' इति निपातः । क्षीणविक्रान्ताः क्षीण विक्रान्तं पराक्रमो येषाम् । 'क्षियो दीर्घात् ||२|४६ | इति निष्ठात- कारस्य नः ॥ २२ ॥ इतीट्प्रतिषेधाधिकारः । ( २५६ ) इतः प्रभृतीट मधिकृत्याह-- हत्वा रक्षांसि लवितुमक्रमीन्मारुतिः पुनः । अशोकवनिकामेव निगृहीतारिशासनः ॥ २३ ॥ हत्वेत्यादि ---रक्षांसि हत्वा मारुतिरशोकवनिकामेव पुनर्लवितं छेत्तुम् । आर्धधातुकस्येट् । अक्रमीत् गतवान् । 'स्नुक्रमोरनात्मनेपदनिमित्ते । ७१२- १३६ |' इती | निगृहीतारिशासनः ध्वस्तारिव्यवस्थः । 'ग्रहोऽलिटि दीर्घः । -७७२।३७।' इतीटो दीर्घत्वम् ॥ २३ ॥ आवरीतुमिवाऽऽकाशं वरितुं वीनिवोत्थितम् । वनं प्रभञ्जनसुतो नादयिष्ट विनाशयन् ॥ २४ ॥ [ नवमः - आवरीतुमित्यादि --- प्रभञ्जनसुतो हनुमान् | वनमशोकवनिकाख्य विना- शयन् नादयिष्ट दयां न कृतवान् । लुङि रूपम् । आकाशमावरीतुमिव अवष्टव्धुमिवोत्थितं वनम् । वीन् पक्षिणो वरितुं प्रार्थयितुमिवोत्थितं 'आग- च्छत, नान्यत्र यात, इहैव फलवृद्धि प्राप्स्यथ' इति । आवरीतुं वरितुमिति 'वृतो वा |७|२|३८|' इति विकल्पेनेटो दीर्घत्वम् ॥ २४ ॥ वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्पशाखिनः । प्रावारिपुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः ॥ २५ ॥ वरिषीष्टेत्यादि-ये कल्पशाखिन: कल्पवृक्षाः स्वर्गादादायारोपितास्तानु- न्मूल्य यथास्थानं क्षिप्यन् मैथिल्याः शिवं कल्याणं वरिषीष्ट प्रार्थितवान् । मैथिल्या भद्रमस्त्वित्याशंसावचने लिङ् । 'न लिङि |७|२|३९|' इति ●