पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | अव्य गिरिकूटाभानभ्यर्णानार्दिदद्रुतम् । वृत्तशस्त्रान्महाऽरम्भानदान्तांस्त्रिदशैरपि ।। १९ ॥ अव्यर्ण इत्यादि -- अव्यर्णोऽपीडितः । 'अदें: संनिविभ्यः । ७ | २ |२४|१ इतीट्प्रतिषेधः । भिरिकूटांभान् महागिरिसदृशप्रमाणान् । अभ्यर्णान वि दूरान् । ‘अभेश्चाविदूयें |७|२|२५|' इतीप्रतिषेधः । द्रुतमार्दिदत् हिंसि- तवान् । अदें: स्वार्थिकण्यन्तस्य लुङि रूपम् । वृत्तशस्त्रोऽधीतशस्त्रवि- द्यः । 'णेरध्ययने वृत्तम् |७|२|२६|| इति इंडभावो णिलुक् च निपा- त्यते । महारम्भान् अनल्पव्यापारान् । त्रिदशैरप्यदान्तान् अशमितान् । ' वा दान्तशान्तपूर्ण दस्त स्पष्टच्छन्नज्ञप्ताः |७|२|२७|' इतीडभावो णिलुक् च निपात्यते ॥ १९ ॥ दमितारि: प्रशान्तौजा नादापूरितदिङ्मुखः । जघान रुपितो रुष्टांस्त्वरितस्तूर्णमागतान् ॥ २० ॥ (२५५ ) दमितारिरित्यादि - - ये तु प्रशान्तौजसः शमितवला: सन्तो रुष्टाः तूर्णमागताः तान् कपिर्जघान व्यापादितवान् । प्रतापादाम्यन्तोऽरयो दमिता येन दुमितारिः । प्रशान्तं शत्रूणामोजो येन स प्रशान्तौजाः । नादापूरितदिङ्मुखः तस्य हृष्टत्वात् । रुषितः क्रुद्धः । त्वरितः ससंभ्रमः । अत्र दमितप्रशमितपूरिताः ण्यन्ताः 'वा दान्तशान्तपूर्ण दस्त स्पष्टच्छन्न- ज्ञप्ताः । ७ ।२ । ३७ ।। इति विकल्पितेट: । रुष्टरुषितत्वरिताः 'रुष्यमत्वर- संघुषास्वनाम् |७|२|२८|' इती वा ॥ २० ॥ तेषां निहन्यमानानां सङ्घष्टैः कर्णभेदिभिः । अभूदभ्यमितत्रासमास्वान्ताऽशेषदिग्जगत् तेषामित्यादि-तेषां रक्षसां निहन्यमानानां संघुष्टैः शब्दैः कर्णभेदिभिः बाधिर्यकरैः । अभ्यमितत्रासं अभिगतत्रासं जगदभूत् । आस्वान्ता: अशेषा दिशो यस्मिन् जगति । संयुष्टाभ्यमितास्वान्ताः 'रुण्यमत्वरसंघुपास्वनाम् |७|२|२८|'इति विकल्पितेट: ॥ २१ ॥ ॥ २१ ॥ भय संहृष्ट रामाणस्ततस्तेऽपचितद्विषः । क्षणेन क्षीणविक्रान्ताः कपिनानेषत क्षयम् ॥ २२ ॥