पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२५४ ) भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः - मांसोपभोगेन स्थूलवर्ष्मणः । उभयत्रापि । 'श्वीदितो निष्ठायाम् । ७ । २ । १४ ।' इतीट्प्रतिषेधः । तत्र श्वयतेर्यजादित्वात् संप्रसारणम् 'हलः । ६ । ४ । २ ।। इति संप्रसारणस्य दीर्घः । द्वयोरप्योदित्वान्निष्ठानत्वम् । उद्त्तनयनो रोषात् निष्क्रान्ततारकः । 'यस्य विभाषा । ७ । २ । १५ ।' इतीप्रतिषेधः । वृतेरुदित्वात् । मित्रान् स्निग्धान् मन्त्रिणः । 'ओदितश्च । ७।२।१६।' इतीप्रतिषेधः । “रदाभ्यां निष्ठातो नः । ८ । २ । ४२ ।' इति निष्ठानत्वम् ॥ १६ ॥ प्रमेदिताः सपुत्रास्ते सुस्वान्ता बाढविक्रमाः | अम्लिष्टनादा निरगुः फाण्टचित्रास्त्रपाणयः ॥ १७ ॥ प्रमेदिता इत्यादि — ते मन्त्रिण : सपुत्राः पुत्रैः सह निरगुः निर्गताः । ‘इणो गा लुङि । २ । ४ । ४५ ।' प्रमेदिताः स्निग्धीभवितुमारब्धाः । आदि- कर्मणि निष्ठा । ततो 'विभाषा भावादिकर्मणोः' इति प्रतिषेधः । इट्पक्षे ‘निष्ठा शीस्विदिमिदिस्विदधृषः । १ । २ । १९ ।' इति कित्त्वप्रतिषेधात् गुणः । सुस्वान्ता: स्वामिनि कल्याणमनसः । बाढविक्रमाः भृशपराक्रमाः । अम्लिष्टनादाः : विस्पष्टवाच: मन्त्रिणां वाग्मित्वात् । फाण्टचित्रास्त्रपाणयः यदर्ातमपिष्टं कषायमुदकसंपर्कमात्राद्विभक्तरसम् ईषदुष्णं तदल्पप्रयाससाध्य- त्वात् अनायाससाध्यं फाण्टमित्युच्यते तेन चित्राणि रञ्जितानि अस्त्राणि पौमिति । स्वान्तादयः 'क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्ध फाण्ट- बाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । ७। २ । १८ ।’ इति निपातिताः ॥ १७ ॥ अथ द्वाभ्यां युग्मम् | तान्दृष्ट्वाऽतिदृढान्घृष्टान् प्राप्तान्परिवृढाज्ञया । कष्टं विनर्दतः क्रूराज्ञ शस्त्रघुष्टकराकपिः ॥ १८ ॥ तानित्यादि - तान् दृष्ट्वा कपिः आर्दिददिति वक्ष्यमाणेन संबन्धः । किंभूतान् धृष्टान् । धृष्णोतीति धृष्टः । “वृषिशसी वैयात्य |७|२||१९|| इतीट्प्रतिषेधः । अतिदृढान् बलवतः । 'दृढ : स्थूलबलयोः । ७ । २ । २०।' निपातनम् । परिवृढाज्ञया परिवृढस्य प्रभोराज्ञया प्राप्तान् । 'प्रभौ परिवृढः । ७।२।२१ ।। इति निपातनम् । कष्टं निर्दतः कृच्छ्र ध्वनतः । गम्भीरखं वा । 'कृच्छ्रगहनयोः कषः ।७।२।२२। इतीट्प्र- अतिषेधः । क्रूरान् हिंस्रान | शस्त्रघुष्टकरान् । 'घुषिरविशब्दने ।७ । २ । २३ ।' इती प्रतिषेधः ||१८||