पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | ( २५३ ) तानित्यादि ---समुदिता एकस्यामेव वेलायां मया हन्तव्या इति वानर- स्तोरणमाश्रितवान् । स तोरणं श्रित्वा तान् राक्षसान् विजिघृक्षून विग्र- हीतुमिच्छून् । युतान् समुदितान् । समागतान् ढौकितान् । क्षितौ पृथिव्यां चेतव्यान् पुञ्जीकर्तव्यान् । जघान हतवान् | परिघमाधूय परिभ्राम्य | सत्र चेतव्यानिति 'एकाच उपदेशेऽनुदात्तात् - ७ । २ । १० ।' इतीप्रतिषेधः । क्षिताविति । ‘ क्तिचूक्तौ च संज्ञायाम् । ३ । ३ । १७४ ।' इति क्तिच् । 'तितुत्रतथसिसुसरकसेषु च । ७ । २ । ९ ।' इतीप्रतिषेधः । श्रित्वा युवानिति ‘श्रयुकः किति । ७ । २ । ११ ।' इति इट्प्रतिषेधः । विजिघृक्षू- निति 'सनि ग्रहगुहोच । ७ । २ । १२ ।। इति । तत्र 'रुदविदमुषग्रहि- स्वपिप्रच्छः संश्च । १ ।२।८ ।' इति सनः कित्त्वं ग्रहिज्या वयिव्यधि- वष्टिविचतिवृश्चातपृच्छतिभृज्जतीनां ङिति च । ६ । १ । १६ ।" इति संप्रसा- रणं ढत्वकत्वषत्वानि ॥ १३ ॥ ( संजुघुक्षव आयूंषि ततः प्रतिरुरूपवः । रावणाऽन्तिकमाजग्मुर्हतशेषा निशाचराः ॥ १४ ॥ संजुघुक्षव इत्यादि — तत उत्तरकालं ये हतशेषा निशाचरा: ते संजुधु- क्षव आयूंषि जीवितानि गोहितुमिच्छवः गुहे: पूर्ववत्प्रतिषेधः । रावणा- न्तिकमाजग्मुः आगताः । प्रतिरुरूषवः वक्ष्यमाणमर्थे कथयितुमिच्छवः । अत्रापि पूर्ववत्प्रतिषेधः । तत्र चकारेणोगन्तानां सनि समुच्चितत्वात् ॥ १४॥ एकेन बहवः शूराः साविष्काराः प्रमत्तवत् | वैमुख्यं चक्रमेत्युच्चैरूचुर्दशमुखान्तिके ॥ १५ ॥ एकेनेत्यादि--वयं बहवः शूराः साविष्काराः साहंकारा अपि सन्तः एके- नापि कपिना हेतुभूतेन वैमुख्यं चकूम पराङ्मुखत्वमनुष्ठितवन्तः प्रमत्तवत् मद्यपानमत्ता इव । एवं च चित्तव्याक्षेपादुत्तमपुरुषे लिटि कृते 'कृसृभृवृ- स्तुद्रुस्रुश्रुवा लिटि |७| २ | १३ |' इतीप्रतिषेधः नियमित इति । एवं दश- मुखान्तिके उच्चैरूचुः ॥ १५ ॥ मांसोपभोगसंशूनानुदिनांस्तानवेत्य सः । उद्धृत्तनयनो मित्रान्मन्त्रिणः स्वान्व्यसर्जयत् ॥ १६ ॥ मांसेत्यादि- –स दशमुखस्तानुद्विग्नान् भीतानवेत्य ज्ञात्वा स्वानात्मी- यानू मन्त्रिणो व्यसर्जयत् प्राहिणोत् । कीदृशांस्तान् । मांसोपभाग संशूनान्