भट्टिकाव्ये जयमङ्गलासमेते- [ नवमः - व्रणैरित्यादि-यातुधाना राक्षसा व्रणैः प्रहारमार्गे: रक्तं शोणितमवमिपुः वमन्ति स्म । 'हृयन्तक्षणश्वसजागृणिश्येदिताम् ।७२५॥ इति वृद्धिप्रतिषेधः । देहैर्भुवं प्रौर्णाविषुः छादितवन्तः । अन्ये यातुधानाः भवद्भियः भवन्ती भीर्येषामिति भयात्पलायमानाः । दिशः प्रौर्णाविषुः छादितवन्तः । 'उर्णोते- विभाषा |७|२|६|' इति विकल्पः । उतेः 'विभाषणः ||१|२|३|' इत्याद त्त्वपक्षे द्रष्टव्यः, ङित्त्वे गुणवृद्धिप्रतिषेधात् ॥ १० ॥ ( २५२) अरासिषुश्च्युतोत्साहा भिन्नदेहाः प्रियासवः | कपेरत्रासिपुर्नादान्मृगाः सिंहध्वनेरिव ॥ ११ ॥ इति सिचि वृद्धथधिकारः । अरासिषुरित्यादि--च्युतोत्साहा: निरुत्साहा: अरासिषुः मृताः स्म इति शब्दितवन्तः । यतः प्रियासवः प्रियप्राणाः । कपेः संबन्धिनो नादादत्रासिषुः त्रस्ताः । 'उभयत्रापि नेटि । ७।२ । ५ ।” इति प्रतिषिद्धे 'अतो हलादेर्लंघोः ७७२।७।' इति विकल्पः ॥ ११ ॥ इति सिचि वृद्धथधिकारः ॥ इत इप्रतिषेधमधिकृत्याह- मायानामीश्वरास्तेऽपि शस्त्रहस्ता रथैः कपिम् । प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ॥ १२ ॥ मायानामित्यादि – अथानन्तरं राक्षसा ये दिशो गताः ते कपिं हन्तुं पुन: प्रत्याववृतिरे प्रतिनिवृत्ताः । मायानामीश्वराः प्रभवः । 'स्थेशभासपि- सकसो वरच् । ३ । २ । १७५ ।' इति वरच । 'नेडारी कृति |७|२|८ ।' इति नेट् । 'आर्धधातुक-७|२|३५|' इत्यादिना प्राप्तत्वात् । रथैस्तत्र गताः सन्तः । शस्त्रहस्ताः शस्त्राणि हस्तेषु येषामिति | 'हनि-कुश' इत्यादिना रमेरोणादिकः क्थन् । रथाः। ‘अमि - - चमि' इत्यादिना शसेरौणादिकखन् । 'हसिमृग्वा' - इत्यादिना हसेस्तन् । तयोः 'तितुत्रतथ -८|२|९|' इत्यादिना इट्प्रतिषेधः । हन्तव्या मारुतेरिति हनूमतो वधार्हा: । 'कृत्यानां कर्तरि वा॥२॥३॥७१।' इति षष्टी । 'एकाच उपदेशेऽनुदात्तात् । ७१२|१०|' इतीप्रीतषेधः । हन्तेर्नान्तप्वे- नित्वात् ।। १२ ।। तांचेतव्यान् क्षितौ श्रित्वा वानरस्तोरणं युतान् । जघानाऽऽधूय परिघं विजिघृक्षून्समागतान् ॥ १३ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९०
दिखावट