सर्गः ] अधिकारकाण्डम् । (२५१) कपिनेत्यादि--कपिना अम्भोधिधीरेणाक्षोभ्यत्वात् । राक्षसाः समगं सँगताः । ‘समो गम्यृच्छिभ्याम् |१|३|२९| इति तङ् । लुङ् । यथा सिन्धवो मद्यः उद्धततोयौघाः उद्रितजलपूराः समुद्रेण सङ्गच्छन्ते तथा ॥ ६ ॥ लालमुद्धतं धुन्वन्नुहन्परिघं गुरुम् । तस्थौ तोरणमारुह्य पूर्वे न प्रजहार सः ॥ ७ ॥ -- तु लाङ्गूलमित्यादि – स हनूमान् लाङ्गूलं पुच्छमुद्भूतम् उत्क्षिप्तं धुन्वन् । 'धूञ् कम्पने' इति स्वादौ पठितः । परिघं गुरुम् उद्वहन् तोरणमारुह्य तस्थौ । न पूर्व प्रजहार प्रहृतवान्, शूराणां पश्चात् प्रहांरित्वात् ॥ ७ ॥ एते प्रकीर्णकाः । इतः परं सिचि वृद्धिमधिकृत्याह--- अक्षारिषुः शराम्भांसि तस्मिन्न्रक्षः पयोधराः । न चाऽह्वालीन्नचाऽव्राजीत्रासं कपिमहीधरः ॥ ८ ॥ अक्षारिषुरित्यादि--तास्मन् वने रक्षः पयोधराः रक्षांसि पयोधरा इव । शराम्भांसि शरान् अम्भांसीव | अक्षारिषुः क्षरितवन्तः । क्षरतिरकर्मकः ‘क्षरेत्क्षतजवृत्तिः’ इत्यादि प्रयोगेषु दृश्यते । इह तु सकर्मको विवक्षितः । कपिर्महीधर इव | न चाह्वालीत् न चलितवान् । द्वयोरपि 'अतो हलादेर्लघोः १७|२|७|' इति विकल्पे प्राप्ते 'अतो लान्तस्य |७|२|२|| इति सिचि वृद्धिः । त्रासं भयं च नाव्राजीत् न जंगाम । महीधरतुल्यत्वात् । 'नेटि |७|२|४|१ इति प्रतिषेधस्य 'अतो हलादेघोः |७|२|७|' इति विकल्पिते, 'वदव्रज- हलन्तस्याचः |७|२|३|' इति वृद्धिः ॥ ८ ॥ अवादीत्तिष्ठतेत्युच्चैः प्रादेवीत्परिघं कपिः । तथा यथा रणे प्राणान्बहूनामग्रहीद्विषाम् ॥ ९॥ अवादीदित्यादि ---- तत उत्तरकालं कपिस्तिष्ठत मा पलायध्वमिति उच्चैस्ता- नवादा॑त् । पूर्ववद्वृद्धिः । तथा तेन प्रकारेण परिघं परिघेण प्रादेवीत् विजिगीषते स्म । 'दिवः कर्म च |१|४|४३|| इति परिघस्य कर्मसंज्ञा । दिवे: 'नेटि १७।२।४।' इति वृद्धिप्रतिषेधः । यथा बहूनां द्विषां शत्रूणां प्राणान्न्यग्रहीत् निगृहीतवान् । 'अतो हलादेर्लघोः |७|२|७|' इति विकल्प प्राप्ते 'हृयन्तक्षण- श्वसजागृणिश्वेदिताम् |७|२|५|| इति प्रतिषेधः ॥ ९ ॥ व्रणैरवमिषू रक्तं देहैः प्रौर्णाविषुर्भुवम् । दिशः प्रौर्णाविषुश्चान्ये यातुधाना भवद्भियः ॥ १० ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८९
दिखावट