पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २५० ) भट्टिकाव्ये जयमङ्गलासमेते- यद ताप्सीच्छनैर्भानुर्यत्राऽवासीन्मितं मरुत् । यदाप्यानं हिमोस्रेण भक्त्युपवनं कपिः ॥ २ ॥ [ नवमः - यदित्यादि ---- यद्वनं भानुः शनैर्मन्दमताप्सीत् तपति स्म । हलन्तलक्षणा वृद्धिः । मरुत् मितं स्तोकमवासीत् वाति स्म । हिमोस्रेण शिशिररश्मिना आप्यानं वृद्धिं नीतम् । प्यायते: 'लोपो व्योवलि |६|१|६६|' इति यलोपः । ओदित्त्वान्नत्वम् । तदुपवनं कपिर्भनक्ति चूर्णयतीति निवेदनमकार्षुः ॥ २ ॥ ॥ ततोऽशीतिसहस्रणि किङ्कराणां समादिशत् | इन्द्रजित्मविनाशाय मारुतेः क्रोधमूच्छितः ॥ ३ ॥ तत इत्यादि -- निवेदनानन्तरमिन्द्र जित्सूः रावणः । इन्द्रजितं सूत इति 'सत्सूद्विपदुहयुजविद्भिदच्छिदीजनीराजामुपसर्गेऽपि किप् । ३।२। ६१।' इत्यनुपसर्गे क्विप् | मारुतेर्हनूमतो विनाशाय | अशीतिसहस्राणि समा- दिशत् समादिष्टवान् । किङ्कराणां किं कुर्वन्तीति 'दिवाविभानिशाप्रभाभा• स्करान्तानन्तादिबहुनान्दीकिंलिपिलिविवलिभक्तिकत्र्त्तृचित्रक्षेत्रसङ्ख्याजङ्घाबा- हर्यत्तद्धनुररुषु |३|२|२१|' इति टच् । क्रोधमूच्छितः क्रोधोद्धतः । मूर्च्छ: समुच्छ्राये वर्तमानत्वात् ॥ ३ ॥ शक्त्यृष्टिपरिघमासगदामुगरपाणयः । व्य नुवाना दिशः प्रापुर्वनं दृष्टिविषोपमाः ॥ ४ ॥ -- शक्तीत्यादि - - ते किङ्करा वनं प्रापुः प्राप्तवन्तः । शक्त्यादयः प्रहरण- विशेषाः पाणौ येषामिति 'प्रहर जार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' | व्यश्नुवाना: दिशो व्याप्नुवन्तः । 'अशू व्याप्तौ' वत् दृष्टथैव विनाशयन्त इत्यर्थः ॥ ४ ॥ दध्वान मेघवद्भीममादाय परिघं कपिः । नेदुर्दीप्तायुधास्तऽपि तडित्वन्त इवाऽम्बुदाः ॥ ५ ॥ सौवादिकः । दृष्टिविषोपमा भुजङ्ग- FA दध्वानेत्यादि - कपिभीमं परिघं भयानकमर्गलमादाय मेघवद्दध्वान ध्वनति स्म । तेऽपि किङ्कराः तडित्वन्त इवाम्बुदा इव । नेदुः नदुन्ति स्म । किङ्कराणां कृष्णत्वात् मेघैः सादृश्यम्, आयुधानां च तडितेति ॥ ५ ॥ कपिनाम्भोधिधीरेण समगंसत राक्षसाः | वर्षासूद्धततोयौघाः समुद्रेणेव सिन्धवः ॥ ६ ॥