पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । विलितपुष्परेणुकंपिशं प्रशान्तकलिकापलाशकुसुमं कुसुमनिपातचित्रवसुधं सशब्दनिपतहुमोत्कशकुनम् | शकुन निनादनादिककुब्विलोलविपलायमानहरिणं हरिणविलोचनाधिवसतिं बभञ्ज पवनात्मजो रिपुवनम् ॥ १३१॥ विलुलितेत्यादि--कीदृशं बभञ्ज । विलुलितानां पुष्पाणां रेणुभिः कपिशं पिङ्गम् । प्रशान्ता अवसन्नाः कलिकाः पलाशानि पत्राणि कुसुमानि च यत्र | कुसुमानां निपातेन विचित्रा वसुधा यत्र । सशब्देनिंपतद्भिर्दुमैरुत्का उन्मनसः शकुना यत्र । शकुनानां पलायमानानां निनादेन नादिता: संजातनादाः ककुभो दिशो यत्र । विलोला व्याकुला विपलायमाना हरिणा यत्र | हरिणस्येव विलोचने यस्याः सीतायाः तस्या अधिवसतिं निवासम् ॥ १३१ ॥ इत्यनभिहिताधिकारः । ( २४९ ) इति श्रीजयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्रीभट्टिकाव्ये द्वितीयेऽधिकारकाण्डे लक्षणरूपे तृतीयः परिच्छेदः, लक्ष्यरूपे कथानकेऽशोकवनिकाभङ्गो नामाष्टमः सर्गः । नवमः सर्गः । अथ प्रकीर्णकाः । अत्रान्तरे प्रकीर्णकश्लोकानाह- द्रुभङ्गध्वनिसंविग्नाः कुवत्पक्षिकुलाऽऽकुलाः । अकार्षुः क्षणदाचर्यो रावणस्य निवेदनम् ॥ १ ॥ इत्यादि -- क्षणदाचर्यो निशाचर्य: 'चरेष्टः | ३|२|१६|' इति टः | रावणस्या निवेदनमकार्षुः कृतवत्यः वक्ष्यमाणप्रकारेण | भङ्गध्वनिसंविघ्नाः शाखा- अङ्गशब्देन संत्रस्ताः । 'ओविजी भय-चलनयो: ' 'ओदिश्च । ८ । २ । ३५ । इति निष्ठानत्वम् । कुवत्पक्षिकुलाकुला: कुवद्भिः कूजाद्भः पक्षिकुलैराकुला व्यस्तमानसाः । 'कु शब्दे' आदादिकस्तस्य उवङादेशः ॥ १२ ॥ १ अत्र ‘अश्वललितम्’ वृत्तम्। 'यदिह नजौ भजौ जभलगास्तदाश्वललितां हरार्कयति तत्' इति तल्लक्षणात् ।