सर्ग: ] अधिकारकाण्डम् | ( २५७ ) दीर्घप्रतिषेधः । अन्ये च वृक्षास्तेन समन्ततः क्षिप्ताः सन्तः क्षोणीं पृथ्वीं प्रावारिषुरिवाच्छादितवन्त इव । तेषामनाच्छादितत्वादिवार्थः । 'सिचि वृद्धिः परस्मैपदेषु ।७।२।१।' इति वृद्धिः ॥ २५ ॥ संबुचूर्षुः स्वमाकूतमाज्ञां विवरिषुद्रुतम् । अवरिष्टाक्षमक्षम्यं कपिं हन्तुं दशाननः ॥ २६ ॥ समित्यादि -- रामदूतेन कपिना कर्मेदृशं कृतमिति स्वमाकृतमभिप्रायं संवुवूर्षुः संवरीतुमिच्छुः । दशाननो द्रुतमाज्ञां विवरिषुः प्रकटितुमिच्छुः । अक्षं स्वसुतमवरिष्ट प्रार्थितवान् | कर्त्रभिप्राये तङ् । किमर्थं कपिं हन्तुं हनिष्या- मीति । अक्षम्यं क्षन्तुमशक्यम् । 'पोरदुपधात् ||१|| इति यत् । संचूर्षुः, विवरिषुरिति उगन्तत्वात् 'सनि ग्रहगुहोश्च । ७२|१२|' इति चकारेणेप्रतिषेधे प्राप्ते ‘इट् सनि वा १७१२ | ४११' इति विभाषेट् । तत्रानिट् पक्षं 'इको झल् ||१|२|९||' इति कित्त्वे 'उदोष्टयपूर्वस्य |७|१|१०२ |' इत्युत्व- पक्षेऽगुण एव ॥ २६ ॥ ऊचे संवरिषीष्ठास्त्वं गच्छ शत्रोः पराक्रमम् । ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रुसम्मुखम् ॥ २७ ॥ ऊच इत्यादि – किमित्याह-त्वं गच्छ शत्रोः पराक्रमं संवरिषीष्ठाः संद । आशिष 'लिसिचोरात्मनेपदेषु ७२४२|इतिवृत्रो विभाषेट् । 'उश्च | १|२|१२|' इतीपक्षे न कित्त्वम् । ध्वृषीष्ठाः युधि मायाभिः कर्तृभूताभिः त्वं कुटिलीकृषीष्ठा: । 'ध्वृ हूछने' (हूर्च्छनं कौटिल्यम् ) तस्य चोदात्तत्वात् आशिषि कर्मणि लिङ् । 'ऋतच संयोगादेः । ७ । २ । ४३।१ इति विभाषेट् । अनिट्पक्षे उश्चेति कित्त्वम् । स्वरिता उपतापथिता | शत्रु- संमुखं शत्रोरप्रतः । अतो द्रुतं संस्वरिषीष्ठा इति वक्ष्यमाणेन योज्यम् ॥ 'स्वृ शब्दोपतापयोः' इत्यस्य 'स्वरतिसूतिसूयतिधूऋदितो वा । ७।२।४४ | ' इति विभाषेट् । लिसिचारिति नानुवर्तते ॥ २७ ॥ द्रुतं संस्वरिषीष्ठास्त्वं निर्भयः प्रधनोत्तमे । स मायानामगात्सोता कपेर्विधवितुं तिम् ॥ २८ ॥ द्रुतमित्यादि - संस्वरिषीष्ठा : उपतापय । निर्भयः सन् | आशिषि लिङ् | समो गम्यृच्छिभ्याम् |१|३ | २९ | इत्यत्र 'विदिप्रच्छिस्वरतीनामुपसंख्यानम् 'इत्यात्मनेपदम् । अत्र 'ऋतच संयोगादे | ७ | २ | ४३ ।। इतितीट | प्रध
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२९५
दिखावट