पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२४६) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः - चौरादिकस्य हिंसार्थत्वात्तेन 'जासिनिग्रहणनाटक्राथपिषां हिंसायाम् । २ । ३ । ५६ ।' इति कर्मणि षष्ठी ॥ १२० ।। राक्षसानां माये गते रामः प्रणिहनिष्यति । प्राणानामपणिष्टाऽयं रावणस्त्वामिहानयन् ॥ १२१ ॥ राक्षसाना मित्यादि ---- माय गते रामो राक्षसानां प्रणिहनिष्यति राक्षसान् मारयिष्यति । पूर्ववत् कर्मणि षष्ठी । 'निग्रहण' इति संघातविगृहीतविपर्य - स्तग्रहणमित्युक्तम् । 'नेगदनदपतपदघुमास्यतिह न्तियातिवातिद्रातिप्सातिवप- तिवहतिशाम्यतिचिनोतिदेग्धिषु च । ८ । ४ । १७ ।' इति णत्वम् । किंच ग्राणानामपणिष्टायमिति अयं रावणस्त्वामिहानयन् प्राणानपणिष्ट विक्रीतवान् । 'व्यवहृपणोः समर्थयो |२|३|५७११ इति षष्ठी । 'प्राणानामपणायिष्ट' इति पाठान्तरम् । तदयुक्तम्, स्तुत्यर्थस्य पणेस्तत्र ग्रहणात् 'गुपूधूपविच्छिपणिपनिभ्य आयः |३|१|२८|' इत्यायप्रत्ययो न भवति ।। १२१ ।। अदेवीद्वन्धुभोगानां प्रादेवीदात्मसम्पदम् । शतकृत्व स्तवैकस्याः स्मरत्यहो रघूत्तमः ॥ १२२ ॥ - अवीदित्यादि — न केवलं प्राणानपणिष्ट बन्धुभोगानामदेवीत् बन्धुभो- 'गान् विक्रीतवान् । 'दिवस्तदर्थस्य ||२|३|५८ |' इति षष्टी । दिवो व्यवहारार्थ - • त्वात् । प्रादेवीदात्मसंपदं विक्रीतवान् । 'विभाषोस |२|३|५९ |' इति पद्वितीया । प्रशब्देन युक्तत्वात् । रामानुरागं पुनदर्शयन्नाह | शतकृत्व इति बहुत्वोपलक्षणार्थम् । 'संख्याया: क्रियाभ्यावृत्तिगणने कृत्वसुच् | ५ | ४|१७७१ तवैकस्या अह्नो रघूत्तमः स्मरति । 'अधीगर्थदयेशां: कर्म्मणि|२|३|५२|' इति षष्ठी । अह्न इति एकस्मिन्नप्यह्नि । ‘कृत्वोऽर्थप्रयोगे कालेऽअधिकरणे |२|३|६४ | इति षष्ठी ।। १२२ ।। एवं तामाश्वास्य संदेशं दापयितुमाह- तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न । प्रतिसंदिश्यतां ताबद्भर्तुः शार्ङ्गस्य मैथिलि ॥ १२३ ॥ तवेत्यादि — हे मौथलि ! तवोपशायिका परिपाट्या शयनं याभी राक्षसीभिः सहेत्यर्थात् । 'पर्यायार्हणोत्पत्तिषु वच् | ३|३|१११।' इति वच् | यावन्न चेतयन्ति न प्रतिबुध्यन्ते तावत् प्रतिसंदिश्यतां प्रतिसंदेशो दीयताम् । शार्ङ्गस्य भर्तुः शार्ङ्गधनुर्धारयतो रामस्य । तव शार्ङ्गस्येति यथाक्रमम् 'कर्तृकर्मणोः कृति । २|३|६५|| इति षष्ठी ॥ १२३ ॥