सर्गः ] अधिकारकाण्डम् | (२४५) विपूर्वकात्सर्गब्दात् ५१।' इति खोलिङ्गबहुवचने भवतः । व्यसर्जयदिति 'प्रातिपदिकाद्धात्वर्थे बहुलमिष्टचच्च' इत्यनेन णिचि लङि रूपम् || ११७ ।। संदेहनिवृत्त्यर्थ चाभिज्ञानं दर्शयन्नाह - अयं मैथिल्यभिज्ञानं काकुत्स्थस्याऽङ्गुलीयकः | भवत्याः स्मरताऽत्यर्थमर्पितः सादरं मम ॥ ११८ ।। अयमित्यादि - काकुत्स्थस्थायमङ्गुलीयकोऽभिज्ञानं चिह्नमयमभिज्ञानमिति लिङ्गाधिक्ये प्रातिपदिकमात्रे प्रथमा । मैथिलीति संबोधनादिके 'संबोधने च ॥२॥ ३।४७|' इति प्रथमा । सामन्त्रित संबुद्धिश्चात्रैव द्रष्टव्यम् । काकुत्स्थस्यति ‘पष्ठी शेषे । २।३।५०।' इति षष्ठी | भवत्या अत्यर्थं स्मरता सादरमर्पितम् । 'अधी गर्थदशां कर्म्मणि । २ । ३ । ५२ ।' इति स्मरणार्थे कर्मणः शेषत्वविवक्षायां षष्ठी ।। ११८ ॥ रामस्य दयमानोऽसावध्येति तव लक्ष्मणः । उपास्कृषातां राजेन्द्रावागमस्येह मा त्रसीः ॥ ११९ ॥ रामस्येत्यादि- असौ लक्ष्मणो रामस्य दयमानो रामं रक्षन् शुचं मा कार्षीक रिति । दयतेः कर्मणि षष्ठी | तवाध्येति त्वां स्मरति । 'अधीगर्थदयेशां कर्मणि २|३|५२' इति षष्टी । आश्वासनार्थमाह - मा त्रसी: उद्वेगं मा कार्षीः। त्रसे- रीदित्त्वान्निष्ठायामिप्रतिषेधात् सिच इटू भवति । यतो राजेन्द्रौ रामलक्ष्मणौ । इहागमस्यागमनस्य | भावे अप् | उपास्कृषातां प्रतियत्नं कृतवन्तौ । आगमनस्य निश्चितत्वात् तस्यैव सुग्रीवसख्येन गुणाधानात्, तेन 'कृञः प्रतियत्ने |२|३|५३ | इति कर्मणि षष्ठी । प्रतियत्ने लुङ तङ् सुट् ॥ ११९ ॥ रावणस्येह रोक्ष्यन्ति कपयो भीमविक्रमाः । धृत्या नाथस्व वैदेहि मन्योरुज्जासयाऽऽत्मनः ॥ १२० ॥ रावणस्येत्यादि - - - इह लङ्कायां कपया भीमविक्रमाः असह्यपराक्रमाः राव- •णस्य रोक्ष्यन्ति सरोग रावणं करिष्यन्ति । भीमविक्रमा इति गुणप्रधानो निर्दे- शः । ततश्च विक्रमे रुज: भावकर्तृकत्वात् रुजार्थानाम् 'भाववचनानामज्वरेः। २ । ३ । ५४ ।' इति षष्ठी । अतो हे वैदेहि ! धृत्या नाथस्व आशंसस्व धृतिं लभस्वेत्यर्थः । 'आशिषि नाथः | २|३|५५|| इति कर्मणि पष्ठी । 'आशिषि नाथ इति वाच्यम्' इति तङ् | मन्योरुज्जासयात्मनो मन्युं नाशय । 'जसु ताडने ' ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८३
दिखावट