पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अष्टमः - (२४४ ) भट्टिकाव्ये जयमङ्गलासमेते- वानरेष्वित्यादि-- - वानरेषु स्वामी यः कपिः सुग्रीवः स नरेष्वधिपतेः रामस्य सखा जातः। ‘स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ।२।३।३९ इति षष्ठीसप्तम्योर्विधानात् सप्तम्युदाहृता । ततोऽहं दूत आगतः ॥ ११४ ॥ आगत्य च लङ्कां प्रविश्य इहायात इत्याह -- अथ युग्मम् । ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् | कुशलोऽन्वेषणस्याऽहमायुक्तो दूतकर्माणि ॥ ११५ ॥ ईश्वरस्येत्यादि---निशाटानां राक्षसानामीश्वरस्य दशाननस्थ । अत्र षष्ठधु- दाहृता । पुरीं निखिलां निःशेषां विलोक्य किं तत्र वर्तत इति । प्राप्त इति वक्ष्यमाणेन संबन्धः | कुशलोऽन्वेषणत्याहं सीताया अन्वेषणस्य निपुणः | आयुक्तो दूतकर्मणि दूतक्रियायां व्याप्तः । 'आयुक्तकुशलाभ्यां चासेवायाम् ।२। ३।४०।' इति षष्ठीसप्तम्यौ ॥ ११५ ।। दर्शनीयतमाः पश्यन् स्त्रीषु दिव्यास्वपि स्त्रियः । प्राप्ती व्यालतमान्व्यस्यन् भुजङ्गेभ्योऽपि राक्षसान् ॥ ११६ ॥ दर्शनीयेत्यादि-तत्र दिव्यास्वपि स्त्रषु मध्ये दर्शनीयतमाः स्त्रियः पश्यन् “यता निर्धारणम् | २|३|४१ || इति सप्तमी । दर्शनीयतमत्वेन गुणेन पृथ- क्करणात् । भुजङ्गेभ्योऽपि व्यालतमान् हिंस्रान् राक्षसान् व्यस्यन् अपक्षि- धन् । 'पञ्चमी विभक्ते |२|३|४२ | इति पञ्चमी । भुजङ्गेभ्यो राक्षसानां विभा गात् । प्राप्तो देव्याः पादमूलमित्यर्थात् ॥ ११६ ॥ किमवस्थो राम इत्याह- भवत्यामुत्सुको रामः प्रसितः संगमेन ते । मघासु कृतनिर्वापः पितृभ्यो मां व्यसर्जयत् ॥ ११७ ॥ 'भवत्यामित्यादि -- भवत्यां त्वयि उत्सुकः उन्मना: रामस्ते तव संगमेन प्रसितः प्रसक्तः । 'प्रसितोत्सुकाभ्यां तृतीया च |२|३|४४|| इति चकारात्स- तमी | मघाभिर्युक्तः कालः तत्समीपे चन्द्रमसो वर्तमानत्वात् । 'नक्षत्रेण युक्तः कालः ।४।२।३।' इत्यण् । तस्य 'लुबविशेषे । ४ । २ । ४ । तस्मिन् काले पितृभ्यः कृतनिर्वाप : दत्तदानः मां व्यसर्जयत् । लुपि ॥२॥३॥४५॥ इति सप्तमी । तत्रापि 'लुपि युक्तद्वयक्तिवचने । १ ।२ । इति लुप् । ‘नक्षत्रे च १ दिवि भवा इति दिव्यास्तासु | २ अतिर्हिस्रानिति वक्तव्यम् ।