पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] यदि त्वं रामकिङ्करः क्कासावित्याह- विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्यपर्वतात् । नाइनभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥ १११ ॥ विप्रेत्यादि——माल्यवति पर्वते तव प्रियो राम: महेन्द्रस्य पर्वतस्य विप्रकृष्टं दूरम् । विन्ध्यपर्वताच्च न दूरम् । 'दूरान्तिकार्यैः षष्ठयन्यतरस्याम् | २|३|३४| इति षष्ठीपञ्चम्यौ । महेन्द्र पर्वतविन्ध्ययोर्दूरविप्रकृष्टयोस्तु 'दूरान्तिकार्थेभ्यो द्वितीया च ||२|३||३५||' इति द्वितीया । नानभ्याशे न दूरे समुद्रस्य । 'दूरान्तिकार्यैः षष्ठचन्यताम् ||२|३|३४|| इति षष्ठी । माल्यवति 'सप्त- म्यधिकरणे च |२|३|३६ || इति सप्तमी | चकाराहूरान्तिकार्थेभ्यश्च । तेनान- भ्याश इति सप्तमी ।। १११ ॥ असंप्राप्ते दशग्रीवे प्रविष्टोऽहमिदं वनम् । अधिकारकाण्डम् |


(२४३ ) तस्मिन्प्रतिगते द्रष्टं त्वामुपास्यचेतितः ॥ ११२ ॥ असमित्यादि – दशग्रीवे दशवदने असंप्राप्ते अप्रविष्टे अहमचेतितः सन् इदं वनमशोकवनिकाख्यं प्रविष्ट इति । तस्मिन् प्रतिगते त्वां द्रष्टुमुपाक्रंसि समुत्सहे स्म । 'यस्य च भावेन भावलक्षणम् । २ । ३।३७ । इति सप्तमी । कपेः प्रवेशोपक्रमयोः रावणसंप्राप्तिप्रतिगमनक्रियाभ्यां लक्ष्यमाणत्वात् । उप- सीति 'उपपराभ्याम् |१|३|३९ |' इत्यनेन वृत्त्यादिषु सर्ग उत्साहे क्रमेस्तङ् । उत्तमपुरुषैकवचनम् । 'स्नुक्रमोरनात्मनेपदनिमित्ते । ७ । २ । ३६ ।' इति । सिच `इट् न भवति ।। ११२ ॥ यद्यादावेव प्रविष्टोऽसि ताई किमिति स्वकर्म न दर्शितवा नसत्याह -- तस्मिन्वदति रुष्टोऽपि नाकार्ष देवि विक्रमम् । अविनाशाय कार्यस्य विचिन्वानः परापरम् ॥ ११३ ।। तस्मिन्नित्यादि-हे देवि ! तस्मिन् वदति रुष्टोऽपि विक्रमं नाकार्ष तं तथा • वदन्तमनादृत्य विक्रमं नाकार्षमित्यर्थः । 'बंष्ठी चादरे |२|३|३८ ।' इति चकारात्सप्तमी । किमर्थम् - कार्यस्य संदेशकथादरैविनाशाय । विचिन्वानः परापरं पौर्वापर्यं निरूपयन् । कर्त्रभिप्राये तङ् || ११३ ॥ कथं वानरस्त्वं तस्य किङ्कर इत्याह- वानरेषु कपिः स्वामी नरेष्वधिपतेः सखा । जातो रामस्य सुग्रीवस्ततो दूतोऽहमागतः ॥ ११४ ॥ १ परिपालनायेति भावः । .