पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः उत्तराहीत्यादि--रामदूतोऽयमिति न संभाव्यते । यतः समुद्रादुत्तरा या दिकू तस्यामुत्तराहि वसन् रामः | 'आहि च दूरे |५|३|३७|' इत्यनुवृत्य उत्तराच्च । ५|३|३५|' इत्याहि । तत्राहिप्रत्ययान्तेन उत्तराहिशब्देन योगे समुद्रादिति पञ्चमी । लवणतोयस्य लवणसमुद्रस्य दक्षिणतो दक्षिणस्यां दिशि स्थितां रक्षसां पुरी लङ्कां कथमवत् ज्ञातवान् | दक्षिणत इति 'दक्षिणोत्तराभ्या- मतसुचू |५|३|२८|' तदन्तेन योगे 'षष्ठ्यतसर्थ प्रत्ययेन | २ | ३ | ३० ।' इति षष्ठी ।। १०७ ॥ (२४२) दण्डकान्दक्षिणेनाऽहं सरितोऽद्रीनवनानि च । अतिक्रम्याऽम्बुधिं चैव पुंसामगममाहता ॥ १०८ ॥ दण्डकानित्यादि — दण्डकानामदूरे या दक्षिणा दिकं तस्यामिति । 'एन- बन्यतरस्यामदूरेऽपञ्चम्याः ||५|३|३५|| इति सप्तम्यन्तादेनप् प्रत्ययः 1 तदन्तेन योगे ‘एनपा द्वितीया ||२|३|३१|| इति द्वितीया । दक्षिणेन दण्डकानां दक्षिणस्यां दिशि | सरितोऽद्रीन् वनानि च अम्बुधिं चातिक्रम्य पुंसामगम- मगम्यम् । 'ग्रहवृहनिश्चिगमञ्च |३|३|५८|' इत्यप् | अहमाहृता आनीता । तत्कथम वैदित्य चिन्तयत् ॥ १०८ ॥ पृथ स्वत चण्डाद्वैनतेयेन वा विना । गन्तुभुत्सहते नेह कश्चिकिमुत वानरः ॥ १०९ ॥ पृथगित्यादि--नभस्वतो वातात् चण्डात् पृथक् वायुं त्यक्त्वा । वैन- तेयेन वा विना गरुडं वा वर्जयित्वा । 'पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् । २ । ३ । ३२ ।। इति तृतीयापञ्चम्यौ । इह लङ्कायां कश्चित गन्तुं नोत्सहते किमुत वानरः ।। १०९ ॥ इति चिन्तावती कृच्छ्रात्समासाद्य कपिद्विपः | हनूमान् । मुक्तां स्तोकेन रक्षोभिः प्रोचेऽहं रामकिङ्करः ॥ ११० ॥ इतीत्यादि - - एवमुक्तेन प्रकारेण चिन्तावर्ती कपिद्विपो कृच्छ्रात्समासाद्य कथमप्युपगम्य | अहं रामकिङ्करः रामप्रेषणकर इति प्रोचे । मुक्तां स्तोकेनाल्पेन रक्षोभिः कर्तृभिः । 'करणे च स्तोकाल्पकृच्छ्र- कतिपयस्यासत्त्ववचनस्य |२|३|३३|| इति तृतीया पञ्चम्यौ । कृच्छ्रस्तोकयोर- सत्त्ववचनयोः करणत्वात् ॥ ११० ॥ १अवोपसर्ग पूर्वकस्येणो लङि रूपम् ।