सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । ( २४१ ) योदाहृता न पञ्चमी | वियोगस्य गुणपदार्थत्वात् । किमिति संकथां प्रास्ता- वीदित्याह--हेतोर्बोधस्य मैथिल्याः । एष रामदूत इति मैथिल्या बोधो- Sवगम: स्यात् । 'षष्ठी हेतुप्रयोगे |२||३|२६|| इति बोधशब्दस्य षष्टी । प्रास्तावीदिति ‘स्तुसुधूञ्भ्यः परस्मैपदेषु |७|२|७२।' इतीट् | 'नोट |७|२|१४| इति हलन्तलक्षणाया वृद्धेः प्रतिषेधोः नेगन्तलक्षणायाः ॥ १३ ॥ तं दृष्टचिन्तयत्सीता हेतोः कस्यैष रावणः । अवरुह्य तरोरारादेति वानरविग्रहः ॥ १०४ ॥ तमित्यादि – तं हनूमन्तं रामं स्तुवन्तं दृष्ट्वा सीता अचिन्तयत् । कस्या हेतोः एष रावणो वानरविग्रहः सन् ऐति आयाति । आपूर्वस्येणो रूपम् ॥ 'सर्वनाम्नस्तृतीया च |२|३|२७|' इति षष्ठी | किंशब्दस्य सर्वनामत्वात् । आरात् अन्तिके । तरोरिति 'अन्यारादितरतेंदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते । २।३।२९।' इत्याराच्छब्दयोगे पञ्चमी | अवरुह्यावतीर्येति । अवरोहणापे क्षया ह्यपादाने पञ्चमी । अपेक्षाया यौगपद्याभावात् । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति आराद्योगे न वर्तते ॥ १०४ ॥ पूर्वस्मादन्यवद्भावि भावाद्दशरथि स्तुवन् । ऋते क्रौर्यात्समाया तो मां विश्वासयितुं नु किम् ॥ १०५ ॥ पूर्वस्मादित्यादि – पूर्वस्माद्रावणादन्यवद्भाति ज्ञायते । अन्येन तुल्यं वर्तते इति कृत्वा अन्यशब्दयोगे पञ्चमी । यतो भावात् स्नेहाद्दाशरथिं स्तुवन् । किं नु क्रौर्याहते क्रौर्य वर्जयित्वा । ऋतेशब्दयोगे पञ्चमी । मां विश्वासयितुं संभावयितुं किमागत इत्यचिन्तयत् ॥ १०५ ॥ इतरो रावणादेष राघवाऽनुचरो यादे । सफलाने निमित्तानि प्राक्प्रभातात्ततो मम ॥ १०६ । इतर इत्यादि - - यदि रावणादितर: प्रतियोगी राघवानुचरः राघवार्थकारी | इतरयोगे पञ्चमी । ततो मम सफलानि स्वप्नलक्षणानि दर्शनादीनि निमि- त्तानि । प्राक् प्रभातात् आदित्योदयात्पूर्वस्मिन् काले । अन्यस्य हि प्रभाता- दुत्तरकाले सफलानि । अञ्चूत्तरपदयोगे पञ्चमी || १०६ ।। उत्तराहि वसन् रामः समुद्राद्रक्षसां पुरम् । अवैलवणतोयस्य स्थितां दक्षिणतः कथम् ॥ १०७ ।। १६