पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् | पुरः प्रवेशमाश्चर्यं बुद्धा शाखामृगेण सा । चूडामणिमभिज्ञानं ददौ रामस्य संमतम् ॥ १२४ ।। (२४७) पुर इत्यादि — शाखामृगेण मर्कटेन पुरो लङ्काया: दुष्प्रवेशायाः प्रवेशः तमाश्चर्यमद्भुतं बुद्ध्वा सा सीता चूडामणिमभिज्ञानं ददौ । सर्वमुक्तमस्य संभाव्यत इति । 'उभयप्राप्तौ कर्मणि २|३|३६ |' इति षष्ठी । प्रवेश इत्युभयप्राप्तौ कृति लङ्का-हनूमतोः कर्मकर्तृत्वात् । रामस्य सम्मतं प्रियम् । 'मतिबुद्धि- पूजार्थेभ्यश्च |३|२|१८८ ' इति वर्तमाने निष्ठा ।' न लोकाव्ययनिष्ठा - खलनाम् |२||३|६९| इति षष्ठीप्रतिषेधे प्राप्ते ' तस्य वर्तमाने । २|३|६७|' इति षष्ठी ।। १२४ ।। रामस्य शयितं भुक्तं जल्पित हसितं स्थितम् । प्रक्रान्तं च मुहुः पृष्ट्वा हनुमन्तं व्यसर्जयत् ॥ १२५ ॥ रामस्येत्यादि—रामस्य अभिज्ञानं दत्त्वा शयितादिकं मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत् प्रेषितवती । तस्य शयितं शयनस्थानं किं भूमौ शेते अन्यत्रेति वा । भुक्तं भोजनस्थानं किं गृहे भु मुनिजनगृहे वेति । जल्पितं मन्त्रस्थानं किं रहसि मन्त्रयते प्रकाशे वेति । हसितं हसनस्थानं किं शृङ्गारवस्तुनि हसति वीरवस्तुनि वेति । स्थितं निवासस्थानं किं गुहायां तिष्ठत्युत तरुतले वेति । प्रक्रान्तं प्रचङ्क्रमणस्थानम् | 'अनुनासिकस्य क्विझलोः किति | ६|४|१५|' इति दीर्घः । किम् अङ्गने क्रम्यते अन्यत्र वेति । एषां श्रौव्यगतिप्रत्यवसानार्थत्वात् ‘क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः |३|४|७६ | इति क्तः । तस्य प्रयोगे 'अधिकरणवाचिनश्च |२|३|६८|| इति षष्ठी ।। १२५ ।। असौ दधदभिज्ञानं चिकीर्षुः कर्म दारुणम् । गामुकोऽप्यन्तिकं भर्तुर्मनसाऽचिन्तयत्क्षणम् ॥ १२६ ॥ असावित्यादि -- असौ हनूमान् दधत् धारयन्नभिज्ञानं चिह्नम् । ‘कर्तृ- कर्मणोः कृति |२|३|६५ | इति षष्ठयां प्राप्तायाम् 'न लोकाव्ययनिष्ठाखलथं- तृनाम् | २|३||६९|| इति लप्रयोगे प्रतिषेधः । ल इति शानजादयो गृहीताः । दारुण मशोकवनिकाभङ्गादिकं कर्म चिकीर्षुः कर्तुमिच्छुः। उकारप्रश्लेषात् षष्ठ्याः प्रतिषेधः। भर्तुः स्वामिनः अन्तिकं समीपं गामुकोऽपि गमनशीलोऽपि । उकप्रयोगे षष्ठीप्रतिषेधः । मनसा क्षणमचिन्तयत् चिन्तितवान् वक्ष्यमाणं कर्म || १२६ || कृत्वा कर्म यथाऽऽदिष्टं पूर्वकार्याऽविरोधि यः । करोत्यभ्यधिकं कृत्यं तमाहुर्दूतमुत्तमम् ॥ १२७ ॥