(२३८) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः - क्षणमूचे उक्तवान् । उक्तिक्रियया क्षणस्य कालस्य साकल्येन संबन्धात् ‘कालाध्वनोरत्यन्तसंयोगे । २ । ३ । ५ ।” इति द्वितीया । विनिश्व- सन् क्रोधात् ॥ ९४ ।। चिरेणाऽनुगुणं प्रोक्ता प्रतिपत्तिपराङ्मुखी | न मासे प्रतिपत्तासे मां चेन्मर्तासि मैथिलि ॥ ९५ ॥ चिरणेत्यादि - - हे मैथिलि ! चिरेणापि कालेनानुगुणमनुकूलं मया प्रोक्तापि सती प्रतिपत्तिपराङ्मुखी । उक्तस्यार्थस्यानुष्ठानं प्रतिपत्तिः तस्यां पराङ्मुखी । इदानीं यदि त्वं मासे त्रिंशद्दिवसलक्षणे मां न प्रतिपत्तासे नाङ्गीकरिष्यसि तदा मतीसि मरिष्यसि । उभयमपि लुटि रूपम् । तत्र चिरेण प्रोक्ता इति । 'अपवर्गे तृतीया | २|३|६|| विवक्षितार्थप्रका- शनं फलं तस्य प्राप्तौ तत्क्रियापरिसमाप्तिरपवर्ग इति । मां मासे न प्रति- पत्तास इति 'सप्तमीपञ्चम्यौ कारकमध्ये |२|३|७|' इति सप्तमी । कर्मकत्रों: कारकयोर्मध्यत्वात् मासस्य ।। ९५ ।। प्रायुङ्क राक्षसीभमा मन्दिराय प्रतिव्रजन् । भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ ९६ ॥ प्रायुङ्केत्यादि -- रावणो राक्षसीर्भीमा भयानकाः प्रायुङ्क्त समादिष्टवान् । लङि रूपम् । मन्दिराय प्रतिव्रजन् गृहाय प्रतिव्रजन् । 'गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि | २ | ३|१२|' इति तु चतुर्थी । कर्म- प्रवचनीयादि सूत्रचतुष्टयेनोदाहृत कर्मप्रवचनीयाधिकार एव दर्शितत्वात् । किमादिशदित्याह --- सर्वा यूयं सीतायै भयानि दत्त । लोटि रूपम् । 'चतुर्थी संप्रदाने | २ | ३ | १३|| इति चतुर्थी | संपूज्यादृत्य प्रकर्षेण दीयत • इति प्रदानम् । मम कृते मदनुग्रहनिमित्तम् । ९६ ।। गते तस्मिन्समाजग्मुर्भयाय प्रति मैथिलीम् । राक्षस्यो रावणप्रीत्यै क्रूरं चोचुरलं मुहुः ॥ ९७ ॥ गत इत्यादि — तस्मिन् रावणे गते सति राक्षस्यः यागताः । 'समो गम्युच्छिभ्याम् |१|३|२९| इत्यात्मनेपदं न भवति, व्यवहितत्वात् । मैथिलीं प्रति लक्ष्यीकृत्य भयाय सीतायै भयं दातुम् । ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः |२|३|१४|' इति चतुर्थी । ददातेः क्रियार्थोपपदस्य स्थानिनः प्रयुज्यमानस्य भयं कर्म । क्रिया चात्र समा- आगमः । तत्रोपपदं क्रियार्थमिति क्रूरं भयानकम् । मुहुः प्रतिक्षणम् अलं पर्याप्तमूचुः समाजग्मुः सम्भू- आङा
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७६
दिखावट