सर्गः ] अधिकारणकाण्डम् । (२३७) अपीत्यादि - - हे नराशन ! मया तथ्यमुक्तं यन्नामापि न स्थापयिष्य- तीति । अस्मानपि स्तुहि साधूक्तमिति प्रशंस | 'सेर्ह्यपिच्च | ३|४|८| इति अपिति ङित्त्वाद्गुणाभावः । अपि सव निगृहाण यथेच्छं तथा क्रिय- ताम् । मया तु सत्यमेवोक्तमिति भावः । अत्रान्ववस कामचारानुज्ञाने कर्मप्रवचनीयसंज्ञा । किंच कृशानावग्नौ दर्पम् अपि सिञ्चैः क्षरेस्त्वम् । अत्र गीयां लिङि रूपम् । योऽयं मय्यपि मद्विषयेऽपि अभिकः काम- यिता । 'अनुकामिकाभीक : कमिता ५|२|७४ | इति निपातितः । उपसर्ग-- संज्ञाबाधनार्थत्वात् स्तौतिसेधिसिचां षत्वं न भवति ॥ ९२ अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम् । इत्युक्त्वा मैथिली तूष्णीमासांचक्रे दशाननम् ॥ ९३ ॥ अधीत्यादि - पराक्रान्तस्य शौर्यस्य राम ईशितेत्यस्मिन्नर्थे अधिरामे पराक्रा- न्तम् । ‘नपुंसके भावे क्तः | ३|३|११४ | ' । इति क्तः । 'अघिरीश्वरे ||४|१९७। इति स्वस्वामिभावसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । २।३ । ९ ।। इति सप्तमी । यश्चैवं स रामस् क्षयमधिकर्ता करिष्यति । अत्र कर्मण्येव द्वितीया । न तु 'कर्मप्रवचनीययुक्ते द्वितीया |२|३|८|' इत्यनेन । 'विभाषा कृञि |१२|१४|१२|| इति याः संज्ञा तस्या गत्युपसर्गसंज्ञाबाधनार्थत्वात् । संज्ञापक्षे 'तिङि चोदात्तवति |८|१|७१।१ इति निघाताभावो द्रष्टव्य इति । एवमुक्त्वा दशाननं मैथिली तूष्णी- मासाञ्चक्रे तूष्णीं स्थितवती । 'आस उपवेशने' लिट् ॥ १३ ॥ इति कर्मप्रवचनीयाधिकारः । इतः प्रभृति 'अनभिहिते' इत्याधिकृत्य विभक्तिविधानमाह-- ततः खङ्गं समुद्यम्य रावणः क्रूरविग्रहः । वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन् ॥ ९४ ॥ तत इत्यादि — ततः सीतावचनादुत्तरकालं रावणः खङ्गं समुद्यम्य उत्क्षिय | कर्मणि द्वितीया । क्रूरेविग्रहः दुष्प्रेक्ष्यत्वात् । वैदेहीमन्तरा वैदेह्या वधे कुपितः । 'अन्तराऽन्तरेण युक्ते |२३|| इति षष्ठय-- क्रुद्धः पवादाद्वितीया । अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, आधेयश्चात्र वधः । १ भयङ्कराकार इत्यर्थ: । क्रूरो भयावहो विग्रहः शरीरं स्वरूपमिति यावत्, यस्य सः । 'शरीरं वर्ष्म विग्रहः । इत्यमरः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७५
दिखावट