पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२३६) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टम:- भविष्यति । य उद्गणबाणः संग्रामे नारायणतः प्रति तेन तुल्यः । ‘प्रतिः प्रति- निधिप्रतिदानयोः ।१ । ४ । ९२ ।। इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । 'प्रति- निधिप्रतिदाने च यस्मात् | २ | ३ | ११ |' इति पञ्चमी । प्रतियोगे पञ्च- म्यास्तसिः। मुख्यसदृशः प्रतिनिधिः ॥ ८९ ॥ कुतोऽधि यास्यसि क्रूर निहतस्तेन पत्रिभिः । न मूक्तं भवताऽत्युग्रमतिरामं मदोद्धत ॥ ९० ॥ कुत इत्यादि - हे क्रूर ! तेन रामेण उद्गूर्णबाणेन पैत्रिीभः शरैः निहतः सन् कुतोऽधियास्यसि केन प्रकारेण निःसरिष्यसि । 'अधिपरी अनर्थको । १ । ४। ९३ ।' इति अधेः कर्मप्रवचनीयसंज्ञा | धात्वर्थव्यतिरेकेणार्थस्यानभिधाना- दुनर्थकत्वम् । संज्ञा च गत्युपसर्गसंज्ञाबाधनार्था । तेन 'तिङि चोदात्त- चति ।८।१।७१।' इति निघाताभावो द्रष्टव्यः । पञ्चमी च ‘प्रश्नाख्या- नयो' इत्युपसंख्यानाद्भवति । किमिति हनिष्यतीति चेत् - यतो भवता नः। न सूक्तं प्रशस्तमुक्तम् । 'सुः पूजायाम् । ११४१९४वचनीय- त्वम् । 'गतिरनन्तरः |६|२|४|| इति स्वभावः । अत्युग्रमतिरौद्रम् । अतिरामं राममधिक्षिप्य । काकुत्स्थमधन्यमिति । 'अतिरतिक्रमणे च । १ ४/९५|' इति कर्मप्रवचनीयत्वम् । चकारात्पूजायां च तत्र चाप्युक्तमिति प्रयोगः । हे मदोद्धत ! ॥ ९० ॥ परिशेषं न नामाऽपि स्थापयिष्यति ते विभुः । - अपि स्थाणुं जयेद्रामो भवतो ग्रहणं कियत् ॥ ९१ ॥ परीत्यादि - रामो विभुः प्रभुः ते परिशेषं नामापि संज्ञामपि न स्थापयिष्यति, किमु देहम् । 'अपि: पदार्थसम्भावनाऽन्ववसर्गगसमुच्च- ये १४७६ | इति पदार्थों कर्मप्रवचनीयसंज्ञा | पदस्य देहस्याप्रयुज्य- •मानस्यार्थे अपिशब्दो वर्तते । अपि स्थाणुं जयेद्रामो यमाराध्याधिपत्यं प्राप्तवानसि तमपि स्थाणुं महादेवं जेतुं संभाव्यते भवतो ग्रहण कियत् । यस्त्वेवं न भवति । अत्र संभावनायां कर्मप्रवचनीयत्वम् | संभावने लिङ् । उपसर्गबाधनत्वात्संज्ञाया: 'उपसर्गात्सुनोति |८|३|६५ |' इत्यादिना पत्वं न भवति ।। ९१ ।। अपि स्तुह्यपि मेधाऽस्मांस्तथ्यमुक्तं नराऽशन | अपि सिञ्चेः कृशानौ त्वं दपै मय्यपि योऽभिकः ॥ ९२ ।। १ 'पत्रिणौ शरपक्षिणौ ।' इत्यमरः ।