पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । न भवाननु रामं चेदुप शूरेषु वा ततः । अपवाह्यच्छलाद्वीरौ किमर्थं मामिहाऽहरः ॥ ८६ ॥ नेत्यादि-यदि भवान्ननु रामम् रामान्न हीन इत्यर्थः । 'हीने | १ | ४|८६। इत्यनेन कर्मप्रवचनीयसंज्ञा । अनुशब्दश्च स्वीनार्थद्योतकः । हीनश्चोत्कृष्टा- पेक्षः । उपशूरेषु वा शूरेभ्यो वा यद्यधिको भवान् । 'उपोऽधिके च । १ । ४ । ८७ ।' इति चकाराद्धीने उपशब्दस्य कर्मप्रवचनीयसंज्ञा । 'यस्माधिकं यत्य चेश्वरवचनं तत्र सप्तमी । २ । ३ । ९ ।' इत्यनेन सप्तमी । उपशब्दस्या- धिकोनात् । किमर्थ कनकमृगच्छलेन । वीरौ रामलक्ष्मणौ अपवाह्य अन्यतो नीत्वा । मामिहाहरः लङ्कामानीतवान् ॥ ८६ ॥ • (२३५) उप शूरं न ते वृत्तं कथं रात्रिंचराऽधम | यत्संप्रत्यप लोकेभ्यो लङ्कायां वसतिर्भयात् ॥ ८७ ॥ उपेत्यादि--हे रात्रिंचराधम ! कथं ते वृत्तं चरितं नोप शूरं शूरेभ्यो न हीनम् । 'उपोऽधिके च । १ । ४ । ८७ ।' इति चकाराद्वीने उपशब्दस्य कर्म- प्रवचनीयसंज्ञा । यद्यत्मात् संप्रत्यधुना भयाल्लङ्कायां जलपर्वतदुर्गायां वसतिः । वसेरतिः ‘ वहिवस्यतिंभ्यश्चित्' इत्यौणादिकः । अप लोकेभ्यो लोकान् वर्ज- यित्वा । 'अपपरी वर्जने । १ । ४ । ८८ ।” इति कर्मप्रवचनीयसंज्ञायाम, पञ्चम्यपाङ्पारीभः । २ । ३ । १० ।। इति पञ्चमी ॥ ८७ ॥ आ रामदर्शनात्पाप विद्योतस्व स्त्रियः प्रति । सदवृत्ताननु दुर्वृत्तः परस्त्री जातमन्मथः ॥ ८८ ॥ आ रामेत्यादि- - हे पाप ! आ रामदर्शनात् रामदर्शनं यावत् । 'आङ् मर्यादावचने ।१।४।८९।' इति पूर्ववत्पञ्चमी । स्त्रियः प्रति योषितो लक्ष्यीकृत्य । विद्योतस्व स्थिरो भव | त्रिय इति । 'वाऽम्शसोः |६|४|८०|' इति इयङ् । ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । १ । ४ । ९० ।' इति कर्म- प्रवचनीयत्वम् । सद्वृत्ताननु दुर्वृत्तः सदाचारिणामुपरि दुर्वृत्त इत्यर्थः । इत्थंभू- ताख्यानेऽनोः कर्मप्रवचनीयत्वम् । परस्त्रीं जातमन्मथः । अत्र वीप्सायां कर्म- प्रवचनीयत्वम् ॥ ८८ ॥ अभिद्योतिष्यते रामो भवन्तमचिरादिह । उद्गणबाणः संग्रामे यो नारागंणतः प्रति ॥ ८९ ॥ अभीत्यादि----भवन्तमभि भवन्तं लक्ष्यीकृत्य । 'अभिरभागे । १ ।४।९१ । १ इति कर्मप्रवचनीयत्वम् । अचिरादिह लङ्कायां रामो द्योतिष्यते असह्यतेजा:-