पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः - सानार्थशब्दकर्म्माकिमकाणामणिकर्त्ता स णौ ॥१॥४॥५२॥ इति कर्मसंज्ञा | गतिबुद्धयोरण्यन्तावस्थायां तयोः कर्तृत्वात् ॥ ८२ ॥ प्रीतोऽहं भोजयिष्यामि भवती भुवनत्रयम् । ( २३४) किं विलापयसेऽत्यर्थं पार्श्वे शायय रावणम् ॥ ८३ ॥ प्रीत इत्यादि--अहं प्रीतः सन् भुवनत्रयं तत्समुत्थं, भोज्यं भोक्तुं योग्यं भवतीं भोजयिष्यामि । प्रत्यवसानार्थत्वात्कर्मसंज्ञा | प्रत्यवसानमभ्यवहारः । अकर्त्रभिप्राये ‘णिचञ्च । १ । ३ । ७४ ।' इत्यात्मनेपदं न भवति । विलपन्तं विविधं भाषमाणं किं विलापयसेऽत्यर्थं नाहं त्वामिच्छामीति ब्रुवाणा । अत्र शब्दकर्मकत्वात् कर्मसंज्ञा । कर्त्रभिप्राये णिचश्चेत्यात्मनेपदम् । तस्मादिदं प्रार्थये पार्श्वे रावणं शायय । अत्राकर्मकत्वात्कर्मसंज्ञा ॥ ८३ || आज्ञां कारय रक्षोभिर्मा प्रियाण्युपहार | कः शक्रेण कृतं नेच्छेदधिमूर्धानमञ्ञ्जलिम् ॥ ८४ ।। इति कारकाधिकारः । आज्ञामित्यादि-रक्षांसि त्वदाज्ञां कुर्वन्त्येव । कारय प्रियाणि च त्वत्सम्ब- न्धीनि मामुपहरन्तमुपहारय उत्पादय | 'हृक्रोरन्यतरस्याम् । १ । ४ । ५३ ।। इति कर्मसंज्ञा । शक्रेण कृतं विरचितं अञ्जलिमधिमूर्धानं अधिगतः प्राप्तो मूर्धा येनेति । को नेच्छेत् ‘स्वतन्त्रः कर्त्ता । १ । ४ । ५४ ।' इति कर्तृसंज्ञा | शक्रेग प्रणतोऽहमित्यर्थः । प्रयोज्यकर्ता नोदाहृतोऽण्यन्तावस्थायामुदाहृतत्वात् ||८४ ॥ इति कारकाधिकारः ॥ इतः प्रभृति कर्मप्रवचनीयमधिकृत्याह-- वचनं रक्षसां पत्युरनु क्रुद्धां पतिप्रिया । पापानुवसितं सीता रावणं प्राब्रवीद्वचः ॥ ८५ ॥ वचनमित्यादि-रक्षसां पत्थू रावणस्य वचनमनु लक्ष्यीकृत्य । 'अनुर्लक्षणे । १ । ४ । ८४ ।' इति कर्मप्रवचनीयसंज्ञायां द्वितीया । क्रुद्धा सती सीता | पंतिप्रिया पतिः प्रियो यस्या इति । रावणं प्राब्रवीद्वचो वक्ष्यमाणम् । पापानुवसितं पापेन संयुक्तम् । 'तृतीयार्थे । १ । ४ । ८५ ।' इत्यनेन कर्मनवच- नीयसंज्ञायां द्वितीया । पापमनुवसित इति । द्वितीयेति योगविभागात्समासः । सुप्सुपेति वा ।। ८५ ॥ १ शक्रेणेन्द्रेणेत्यर्थः ।‘जिष्णुर्लेखर्षभः शक्रः' इत्यमरः । २ पतिरेव प्रियो यस्या इति पतिप्रिया पतिव्रतेत्यर्थः ।