पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] अधिकारकाण्डम् । (२३३ ) आह्स्वेत्यादि --- मया साकं साधै सौधे धवलगृहे आस्व तिष्ठ | आसे र्लोटि रूपम् । 'आघारोऽधिकरणम् |१|४|४५|' इत्यधिकरणसंज्ञायां सप्तमी । माऽधिष्ठा निर्जनं वनम् । 'अधिशी थासां कर्म |१|४|४६|' इत्यधिकरणे कर्मसंज्ञा । लुङि रूपम् । माऽधिवात्सीः भुवं भूमौ मा शयिष्ठाः । माङि लाङ रूपम् । ‘उपान्वध्याङ्वसः |१|४|४८|' इति अधिकरणे कर्मसंज्ञा । किंतु शय्यामधिशेष्व | शीङो लोटि रूपम् । 'अधिशीस्थासां कर्म | १||४|४६|' इति कर्मसंज्ञा । स्मरोत्सुका कामार्थिनी ॥ ७९ ॥ अभिन्यविक्षथास्त्वं मे यथैवाऽव्याहता मनः । तवाऽध्यध्यावसन्तं मां मा रौत्सीहृदयं तथा ॥ ८० ॥ अभीत्यादि-- यथैव त्वमव्याहता अनिवारिता सती मे मम मनः अभि- न्यविक्षथाः आभिनिविष्टासि । लुङि रूपम् । 'नेविंशः | १|३|१७|' इति तङ् । 'अभिनिविशश्च । १ । ४ । ४७ ।' इत्यधिकरणे मनसः कर्मसंज्ञा । तथा त्वमपि त्वद्धृदयमध्यावसन्तं मां मा रौत्सीः मा निवारय । रुधेलुङि रूपम् । ‘उपान्वध्याङ्वसः । १ । ४ । ४८ ।' इति हृदयस्य कर्मसंज्ञा || ८० || माऽवमंस्था नमस्यन्तमकार्यज्ञे जगत्पतिम् । संदृष्टे मयि काकुत्स्थमधन्यं कामयेत का ॥ ८१ ॥ मेत्यादि —— हे अकार्यज्ञे ! अविशेषज्ञे ! मां जगत्पतिं नमस्यन्तं माऽवमंस्थाः। 'लुङि रूपम् । 'कर्तुरीप्सिततमं कर्म |१|४|४९ | इति कर्मसंज्ञा । अवमानक्रियया कर्तृसंबन्धिन्या जगत्पतेराप्तुमिष्टत्वात् । संदृष्टे मयिः काकुत्स्थमधन्यं मन्दभाग्यं का कामयेत का इच्छेत् । नैवेत्यर्थ: । 'तथायुक्तं चानीप्सितम् । १।४।५०।' इति कर्मसंज्ञा । येनैव प्रकारेण कर्तुरीप्सिततमं क्रियया युक्तं तेनैवेप्सिताद्न्यस्य रामस्य प्रयुज्यमानत्वात् ॥ ८१ ॥ यः पयो दोग्धि पाषाणं स रामाद्भूतिमाप्नुयात् । रावणं गमय प्रीतिं बोधयन्तं हिताऽहितम् || ८२ ॥ य इत्यादि--- -- यथा पाषाणात् पयो न संभवति तथा रामादपि विभूति- रिति नैराश्यं दर्शयति । पयस: पूर्वेणैव कर्मसंज्ञा | पाषाणस्य 'अकथितं च । १॥४॥५१॥' इत्यनेन कर्मसंज्ञा | रावणं गमय प्रीति भवत्या सह प्रीति गच्छन्तं गमय प्रीतिम्। स्वयमेव हिताहितं भवतीं बुध्यमानां बोधयन्तम् । 'गतिबुद्धिप्रत्यव १ विभूतिरैश्वर्यम्, 'विभूतिर्भूतिरैश्वर्यम्' इत्यमरः ।