पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२३२) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः- संक्रुध्यसीत्यादि—किं त्वं शुभाशुभे दिदृशुं द्रष्टुमिच्छ्रं मां हे मृगेक्षणे ! संक्रुध्यसि । 'क्रुध द्रुहोरुपसृष्टयोः कर्म | १ | ४ | ३८ | इति कर्मसंज्ञा | ऋधेरुपसर्गेण युक्तत्वात् । कुतस्ते परिज्ञानं यत्परस्त्रीषु शुभाशुभं निरूपयसि अन्यत्र दुष्टा- शयत्वात् । अथ कथं मृषा संक्रुध्यामीति चेदाह---ईक्षितव्यं परस्त्रीभ्यः का शुभा न शुभेति यदीक्षितव्यमीक्षणीयं तदयं स्वधर्मो रक्षसाम् । 'राधीक्ष्योर्यस्य विप्रश्नः । १ । ४ । ३९ ।' इति सम्प्रदानसञ्ज्ञा । यतः स्त्रीविषये विविधस्य प्रश्नस्य क्रियमाणत्वात् ।। ७६ ॥ शृण्वद्भ्य: प्रतिशृण्वन्ति मध्यमा भीरु नोत्तमाः । गृणज्योऽनुगृणन्त्यन्येऽकृतार्था नैव मद्विधाः ॥ ७७ ॥ शृण्वद्भय इत्यादि----अनेनात्मनः प्रभावं दर्शयति । शृण्वद्भयः प्रार्थयमा- नेभ्यः स्वामिन्निदं क्रियतामिति मध्यमाः प्रभवः प्रतिशृण्वन्ति ओमित्युपगच्छ- न्ति । हे भीरु ! नोत्तमा मादृशाः । ते हि स्वातन्त्र्यात्स्वयमेव हितं प्रतिपद्यन्त इति भावः । 'प्रत्याभ्यां श्रुवः पूर्वस्य कर्त्ता |१|४|४०|| इति सम्प्रदानसंज्ञा । पूर्वस्याः प्रार्थनक्रियायाः प्रार्थयितुः कर्तृत्वात् । अन्ये प्रभवोऽकृतार्थाः अलब्ध- लाभाः गृणद्भचः अनुग्राह्यस्य भृत्यस्य कस्याचेन्न स्तुतिं कुर्वद्भयो मन्त्रिभ्यःअनुगृ- णन्ति तान् प्रोत्साहयन्ति । अनुगृणीत अनुगृणीतेति ममानुगतो भवतीति नैव मद्विधा अनुगृणन्ति कृतार्थत्वात् । 'गृ शब्दे' इत्यस्य प्रयोगे 'अनुप्रतिगृणश्च । १९४|४|१|' इति सम्प्रदानसंज्ञा | गृणाते: स्तुतिक्रियापेक्षया कर्तृत्वात् ॥ ७७६॥ इच्छ स्नेहेन दीव्यन्ती विषयान्भुवनेश्वरम् । संभोगाय परिक्रीतः कर्तास्मि तव नाऽप्रियम् ॥ ७८ ॥ इच्छेत्यादि — ईदृशं पूजितं भुवनेश्वरं त्रिलोक विजयिनमिच्छ अङ्गीकुरु । आत्मानमुद्दिश्य स्नेहेन प्रेम्णा । 'साधकतमं करणम् ||१|४|४२ |' इति करण- संज्ञा । दीव्यन्ती क्रीडन्ती विषयान् शब्दादिभिरित्यर्थः । 'दिवः कर्म च । १। ४|४३|' इति करणसंज्ञापवादात् कर्मसंज्ञा | संभोगाय परिक्रीतः त्वद्विषय- भोगेन परिक्रीत इत्यर्थः । 'परिक्रयणे सम्प्रदानमन्यतरस्याम् ||४|४४।' इति सम्प्रदानत्वम् । तव नाप्रियं कर्तास्मि न करिष्यामि ॥ ७८ ॥ । आस्स्त्र साकं मया सौधे माऽधिष्ठा निर्जन वनम् । माऽधिवात्सीभुवँ शय्यामधिशेष्व स्मरोत्सुका ॥ ७९ ॥ १ हे वामलोचने इत्यर्थः । 'भीरुरार्ते त्रिलिङ्गः स्याद्वरयोषिति योषिति ।” इति भेदिनी ।