पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अधिकारकाण्डम् । (२३१) सर्गः ] रोचमान इत्यादि -- तत्र तस्यामशोकवनिकायां राक्षसाधिपो रावणः आगात् आगतवान्। रोचमानः कुदृष्टिभ्यः त्यक्तत्रेयीधर्मत्वात् । ये कुदृष्टयः कुबु- द्धयः तान् स्वविषये स्पृहावतः कारयन्नित्यर्थ: । 'रुच्यर्थानां प्रीयमाणः |१|४| ३३|' इति सम्प्रदानसंज्ञायां चतुर्थी । रुचेरभिलाषस्य तत्रावस्थानात् । कुदृष्टयः श्रीयमाणाः। रक्षोभ्यः श्रियं विभूतिं प्रत्तवान् । 'कर्मणा यमभिप्रैति स सम्प्रदानम् |१||४||३२|' इति सम्प्रदानम् । ददातिक्रियया राक्षसानामभिप्रीयमाणत्वात् । श्लाव- मानः परस्त्रीभ्यः युष्मद्विषयेऽस्माकं श्लाघेति परकलत्राणि ज्ञापयितुमेषयन् । 'श्लाघह्नुस्थाशपां ज्ञीप्स्यमानः ||१|४|३४|| इति सम्प्रदानत्वम् । लावया बहुमानेन ज्ञापयितुमिष्यमाणत्वात्तासाम् ॥ ७३ ॥ अशप्त निहुवानोऽसौ सीतायै स्मरमोहितः । धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ॥ ७४ ॥ अशप्तेत्यादि – सीतायै निहुवानः क्रौर्यादिकं न मेऽस्तीति सीतां ज्ञापाये- तुमेषयन्नित्यर्थः । तस्यै सीतायै अशपत् । शपथ सीतां ज्ञापयितुमैषदित्यर्थः । किमित्येवमाह । स्मरमोहितः । अत्र शपथापह्नुतिक्रियया सीतामाज्ञापयितु- . मिष्यमाणत्वात् पूर्ववत् सम्प्रदानसंज्ञा । किं चास्यै सीतायै स्वामिनीभूतामै वसूनि द्रव्याणि प्रत्यपद्यत अङ्गीकृतवान् । धारयन्निव गृहीतवित्त इव । अत्र ‘धारेरुत्तमर्णः ।१।४।३५।’ इति सीतायाः कदाचिदुत्तमर्णया तुल्यत्वात् ॥७४॥ तस्यै स्पृहयमाणोऽसौ बहु प्रियमभाषत । सानुनीतिश्च सीतायै नाऽक्रुध्यन्नाप्यसूयत ॥ ७९ ॥ तस्यायित्यादि --- असौ राक्षसाधिपः स्पृहयमाण: सीतामाप्तुमिच्छन् बहु- प्रियमभाषत वक्ष्यमाणम् । ‘स्टहेरीप्सितः । १ । ४३६ ।' इति स्पृहयतेः स्वार्थिकण्यन्तस्य प्रयोगे सीताया ईप्स्यमानत्वात् । सानुनीतिश्च सानुनयः सीतायै नाक्रुध्यत् तां प्रति कोपं न कृतवान् । नाप्यसूयत दोषाविष्करणलक्षणा- मसूयां न कृतवान् । क्रुध्यतिसूयत्योर्दैवादिकयोरुदात्तेन्ङि तोर्लङि प्रयोगे 'क्रुध- द्रुहेर्ष्या सूयार्थानां यं प्रति कोपः । १ । ४ । ३७ ।' इति सम्प्रदानम् ।। ७५ ।। संक्रुध्यास मृषा किं त्वं दिदृशुं मां मृगेक्षणे ! ईक्षितव्यं परस्त्रीभ्यः स्वधर्मो रक्षसामयम् ॥ ७६ ॥ १ त्रयीति - पदमृग्यजुः सामाख्यवेदत्रयपरम् । तथा च वैदिकमार्गतो विमुखत्यादित्यर्थः ।