पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२३०) भट्टिकाव्ये जयमङ्गलास मेले- [ अष्टमः- वृक्षादित्यादि —-सां जनकात्मजां सीतां स कपिछु जरोऽपश्यदिति वक्ष्य- माणेन संबन्धः । वृक्षात् वृक्षं परिक्रामन् गच्छन् । 'ध्रुवमपायेऽपादानम् ॥१॥ ४।२४।' इत्यपादानसंज्ञायां पञ्चमी । रावणात् बिभ्यतीं भृशं त्रस्यन्तीम् अत्यर्थ शत्रो रावणाद्रक्षामपश्यन्तीं यतो भयं ततः कुतो रक्षेति 'भोत्रार्थानां भयहेतुः। १।४।२५।’इत्यपादानसंज्ञायां पञ्चमी । अदृश्यः प्रच्छन्नो भूत्वा ।'ऋदुपधाचा- क्लृपिचृतेः ।३।१।११० ।' इति क्यप् ॥ ७० ॥ तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् । अन्तर्दधानां रक्षोभ्यो मलिनां म्लानमूर्धजाम् ॥ ७९ ॥ तामित्यादि---प्रीतेः रावणसंबन्धिन्याः पराजयमानां विमुखीभवन्तीम् । 'पराजेरसोढः ।१।४।२६ ।' इत्यपादानत्वम् । असोढोऽर्थः प्रीतिः । रक्ष्यां दशाननात् रावणविषये स्वयं निवार्यप्रसराम् । 'वारणार्थानामीप्सितः ॥१॥४॥ २७|' इत्यपादानत्वम् । प्रवृत्तिविघातलक्षणया रक्षणक्रियया आत्मसंबन्धिन्या दशाननस्य व्याप्तुमभिप्रेतत्वात्, अन्तर्दधानां रक्षोभ्यः मा मां रक्षांसि द्राक्षु- रिति । ततश्च 'अन्तर्धी येनादर्शन मिच्छति ||४|२८| इत्यपादानसंज्ञा । अन्तर्धिनिमित्तं द्दि रक्षोभिरात्मनो दर्शनस्यानीप्सितत्वात् । मलिनां शरीरेण म्लानमूर्धजां मलिनकेशां बद्धवेणीत्वात् || ७१ || ● रामादधीतसंदेशो वायोर्जातश्च्युतस्मिताम् । प्रभवन्तीमिवादित्यादपश्यत्कपिकुञ्जरः ॥ ७२ ॥ रामादित्यादि-सत्कृत्य अधीतसंदेशो गृहीतसंदेश: कपिकुञ्जरः। 'आख्या- तोपयोगे ।१।४।२९।' इत्यपादानसंज्ञा | रामस्याख्यातृत्वात् । सावधानतया संदेशग्रहणात् नियमपूर्वकविद्यावत् संदेशग्रहणम् । वायोजत इति 'जनिकर्तुः प्रकृतिः ।१।४।३०।' इत्यंपादानसंज्ञा | जन्यर्थस्य जन्मनः कर्त्ता हनुमान् तस्य वायुः प्रकृतिः कारणम् । च्युतस्मितां शोकाक्रान्तत्वात् । प्रभवन्तीमिवादि- त्यात् ।‘भुवः प्रभवः ।१।४।३१ | इत्यनेन भवत्यर्थस्य सीतायाः कर्तृभूतायाः प्रथमत उपलभ्यमानत्वात् । अतः प्रभव आदित्यः तस्यास्तेजस्वित्वात् ॥ ७२ ॥ रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवाञ्श्रियम् । श्लाघमानः परस्त्रीभ्यस्तत्राऽऽगाद्राक्षसाऽधिपः ॥ ७३ ॥